SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ | श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 7 // १शतके उपोद्धातः। मङ्गलादीनि सूत्रम् पापरमेष्ठिनतिः पाठान्तरा: शब्दार्थाऽऽदिविवेचनम्। आयो लाभः श्रुतस्य येषामुपाधीनां वा, विशेषणानां प्रक्रमाच्छोभनानामायो लाभो येभ्यः, अथवोपाधिरेव संनिधिरेव, आयमिष्टफलं दैवजनितत्वेन, आयानामिष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम्, अथवाऽऽधीनां मनः पीडानामायोलाभ आध्यायः, अधियांवा, नञः कुत्सार्थत्वात्, कुबुद्धीनामायोऽध्यायः,ध्यै चिन्तायामि त्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव च दुर्ल्यानं वाऽध्यायः, उपहत आध्याय अध्यायो वा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति / णमो सव्वसाहूणमिति, साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः, समतांवा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह निव्वाणसाहए जोए, जम्हा साहेति साहुणो। समा य सव्वभूएसु, तम्हा ते भावसाहुणो॥१॥साहायकं वा संयमकारिणां धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकयथालन्दकल्पिकपरिहारविशुद्धिकल्पिक स्थविरकल्पिकस्थितकल्पि(कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीतभेदाः प्रत्येकबुद्धस्वयम्बुद्धबुद्धबोधितभेदा भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम्, इदं चाहंदादिपदेष्वपि बोद्धव्यं न्यायस्य समानत्वादिति, अथवा- सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च, सार्वस्य वाऽर्हतो न तु बुद्धादेः, साधवः सार्वसाधवः, सर्वान्वा शुभयोगान्साधयन्ति कुर्वन्ति, सान्विाऽर्हतः साधयन्ति तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः सार्वसाधवो वा, अथवा श्रव्येषु श्रवणार्हेषु वाक्येषु, - तस्मादुपाध्याया उच्यन्ते // 1 // (विशेषाव० भागा०३१९७)0निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साधवः / सर्वभूतेषु समाश्च तस्मात्ते भावसाधवः // 1 // (आ०नि०- नम०नि०)
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy