________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 6 // स्म, निष्ठितार्था भवन्ति स्म, अथवा षिधूञ् शास्त्रे माङ्गल्ये चेतिवचनात् सेधन्ति स्म, शासितारोऽभूवन् मङ्गल्यरूपतां 1 शतके चानुभवन्ति स्मेति सिद्धाः, अथवा सिद्धा नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यरुपलब्धगुणसन्दोहत्वात्, उपोद्धातः। मङ्गलादीनि आह च ध्मातं सितं येन पुराणकर्म, यो वा गतो निर्वृतिसौधमूर्ध्नि। ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो। सूत्रम् मे॥१॥अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन पञ्च परमेष्ठिनतिः भव्यानामतीवोपकारहेतुत्वादिति / णमो आयरियाणं ति, आ-मर्यादया तद्विषयविनयरूपया, चर्यन्ते सेव्यन्ते जिनशासनार्थोप- पाठान्तराः शब्दार्थाऽऽदेशकतया तदाकाङ्गिभिरित्याचार्याः, उक्तश्च सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य। गणतत्तिविप्पमुक्को अत्थं वाएइ दिविवेचनम्। आयरिओ॥१॥त्ति, अथवाऽऽचारो ज्ञानाचारादिः पञ्चधा, आ- मर्यादया वा चारो- विहार आचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्याचार्याः, आह च पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसंता आयरिया तेण वुचंति॥१॥अथवा, आ-ईषद्, अपरिपूर्णा इत्यर्थः,चारा- हेरिका ये ते आचाराः, चारकल्पा इत्यर्थः, युक्तायुक्तविभाग-2 निरूपणनिपुणा विनेयाः,अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतया, इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् / णमो उवज्झायाणं ति, उपसमीपमागत्याधीयते, इङ्अध्ययन इतिवचनात् पठ्यते इण गता वितिवचनाद्वा, अधि, आधिक्येन गम्यते, इक्स्मरण इति वचनाद्वा स्मर्यते सूत्रतोजिनप्रवचनं येभ्यस्त उपाध्यायाः, यदाह बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे। तं उवइसंति जम्हा उवझाया तेण वुच्चंति॥१॥अथवोपाधानमुपाधिः संनिधिस्तेनोपाधिना, उपाधौ वा सूत्रार्थविल्लक्षणयुक्तो गच्छस्यालम्बनभूतश्च / गणतप्तिविप्रमुक्तः सन्नर्थं वाचयत्याचार्यः ॥शा(आ०नि०- नम०नि०)0 पञ्चविधमाचारमाचरन्तस्तथा प्रकाशयन्तः। आचारं दर्शयन्तो यतस्तेनाचार्या उच्यन्ते // 1 // (विशेषाव० भा०गा०३१९०)0 जिनाख्याता द्वादशाङ्गी बुधैः स्वाध्यायः कथितस्तां यस्मादुपदिशन्ति // 6 //