________________ श्रीभगवत्यङ्गा श्रीअभय वृत्तियुतम् भाग-१ // 5 // पञ्च सुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह, अर्हद्भ्यः, अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपांपूजामह- १शतके न्तीत्यर्हन्तः, यदाह, अरिहंति वदणनमंसणाणि अरिहंति पूयसक्कारं / सिद्धिगमणं च अरहा अरहंता तेण वुचंति // 1 // (आ०नि० उपोद्धातः। मङ्गलादीनि नम०नि०) अतस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात्, अविद्यमानं वा रहः, एकान्तरूपो देशः, अन्तश्चमध्यं गिरि-3 सूत्रम् 1 गुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषांते, अरहोऽन्तरः, अतस्तेभ्योऽरहोऽन्तर्यः, अथवाऽविद्य परमेष्ठिनतिः मानो रथः स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च विनाशो जराधुपलक्षणभूतो येषां तेऽरथान्ता अतस्तेभ्यः, अथवा पाठान्तरा: शब्दार्थाऽऽअरहंताणं ति क्वचिदप्यासक्तिमगच्छद्भ्यः क्षीणरागत्वात्, अथवाऽरहयङ्ग्यः प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि दिविवेचनम्। वीतरागत्वादिकं स्वं स्वभावमत्यजङ्ग्य इत्यर्थः, अरिहंताणं ति पाठान्तरम्, तत्र कर्मारिहन्तृभ्यः, आह च, अट्ठविहंपिय कम्म अरिभूयं होइ सयलजीवाणं। तं कम्ममरिं हंता अरिहंता तेण वुचंति // 1 // अरुहंताण मित्यपि पाठान्तरम्, तत्र, अरोहद्भ्यः, अनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात्, आह च दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥(तत्त्वार्थ. 10/7 भा.) नमस्करणीयता चैषां भीमभवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथ-8 प्रदर्शकत्वेन परमोपकारित्वादिति। णमो सिद्धाणं ति, सितंबद्धमष्टप्रकारं कर्मेन्धनम्, ध्मातंदग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा विधु गताविति वचनात् सेधन्ति स्म, अपुनरावृत्त्या निर्वृतिपुरीमगच्छन्, अथवा षिधु संराद्धा वितिवचनात् सिद्ध्यन्ति 0 वन्दननमस्यनानि, अर्हन्ति पूजासत्कारौ चार्हन्ति। सिद्धिगमनस्याहा॑श्च तेनार्हन्त उच्यन्ते // 1 // 0 देशीभाषया। 0 सर्वजीवानामप्यष्टविधं कर्म, अरिभूतं भवति / तं कारिं यतो घातयति तेनारिहन्तार उच्यन्ते॥१॥0 सव्वे त्यपि। // 5