SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-१ मङ्गलादीनि // 4 // पद्य शब्दार्थाऽऽ इह व्याख्यातारः शास्त्रव्याख्यानारम्भे फलयोगमङ्गलसमुदायार्थादीनि द्वाराणि वर्णयन्ति, तानि चेह व्याख्यायां शतके विशेषावश्यकादिभ्योऽवसेयानि, शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्तनाय च(मङ्गलं)शिष्टजन- उपोद्धा समाचरणाय वा मङ्गलाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति, तत्र च सकलकल्याणकारणतयाऽधिकृतशास्त्रस्य श्रेयो। सूत्रम् भूतत्वेन विघ्नः सम्भवतीति तदुपशमनाय मङ्गलान्तरव्यपोहेन भावमङ्गलमुपादेयम्, मङ्गलान्तरस्यानैकॉन्तिकत्वादना-पानी त्यन्तिकत्वाच्च, भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात्, आह च किं पुण तमणेगंतियमच्चंत / / पाठान्तराः चण जओऽभिहाणाई। तद्विवरीयं भावे तेण विसेसेण तं पुजं ॥१॥भावमङ्गलस्य च तपः प्रभृतिभेदभिन्नत्वेनानेकविधत्वेऽपि दिविवेचनम्। परमेष्ठिपञ्चकनमस्काररूपं विशेषेणोपादेयम्, परमेष्ठिनां मङ्गलत्वलोकोत्तमत्वशरण्यत्वाभिधानात्,आह च चत्तारि मंगल मित्यादि, तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात्, आह च, एष पश्चनमस्कारः, सर्वपापप्रणाशनः। मङ्गलानां च सर्वेषाम्, प्रथमं भवति मङ्गलम्॥१॥अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह सो सव्वसुयक्खंधऽब्भंतरभूओ त्ति, अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाह___ णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं // सूत्रम् 1 // तत्र नम इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थम्, आह च नेवाइयं पयं० दव्वभावसंकोयण पयत्थो नमः करचरणमस्तक 0 विघ्नविनायकोपशमस्य नियमेन भावाभावात्। 0 परमप्रकर्षवद्विघ्नविनायकोपशमाभावात्। 0 एकान्तिकात्यन्तिकविघ्नोपशमस्य। 0 किं पुनः?,8 8 तदभिधानादि यतोऽनैकान्तिकं नात्यन्तिकं च / तद्विपरीतं भावे तेन विशेषेण तत्पूज्यम्॥१॥ विघ्नविद्रावकाश्चत्वारः। (6?) 0 चत्वारो मङ्गलम्। 0 स8 सर्वश्रुतस्कन्धाभ्यन्तरभूतः। (c) नैपातिकं पदं द्रव्यभावसंकोचनं पदार्थः। (व्याख्या- विशेषाभागा०२८४०)
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy