SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 3 // १शतके उपोद्धातः। ग्रंथनामव्याख्या। व्याख्याप्रज्ञप्तिदश भगवती। महतामेव वाञ्छितवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोस्तदन्येषांचजीवाभिगमादिविविधविवरणदवरकलेशानांसंघट्टनेन बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायकोंदेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पिकुलोत्पन्नरस्माभिर्नाडिकवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना। अथ विआहपन्नत्ति त्तिकः शब्दार्थः?, उच्यते, विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः, आ- अभिविधिना, कथचिन्निखिलज्ञेयव्याप्त्या, मर्यादया वा परस्परासंकीर्णलक्षणाभिधानरूपयाख्यानानि, भगवतो महावीरस्य गौतमादिविनेयान् / शब्दार्थाः। पूज्यत्वेन प्रति प्रनितपदार्थप्रतिपादनानि व्याख्याः, ताः प्रज्ञाप्यन्ते- प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्बूनामानमभि यस्याम् 1, अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्या:- अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् 2, अथवा व्याख्यानाम्- अर्थप्रतिपादनानां प्रकृष्टा ज्ञप्तयो- ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः 3, अथवा व्याख्यायाः- अर्थकथनस्य प्रज्ञायाश्च- तद्धेतुभूतबोधस्य, व्याख्यासु वा प्रज्ञाया आप्तिः प्राप्तिरात्तिर्वा, आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञाप्तियाख्याप्रज्ञात्तिर्वा 4-5, व्याख्याप्रज्ञाद्वा भगवतः सकाशादाप्तिरात्तिर्वा गणधरस्य यस्याःसा तथा 6, अथवा विवाहा विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रबोध्यन्ते वा यस्याम्, विवाहा वा विशिष्टसन्तानाः, विबाधा वा प्रमाणाबाधिताः प्रज्ञा आप्यन्ते यस्याः, विवाहा चासौ विबाधा चासौ वा प्रज्ञप्तिश्चार्थप्रज्ञप्तिश्चार्थप्ररूपणा विवाहप्रज्ञप्ति विवाहप्रज्ञाप्तिः विबाधप्रज्ञाप्ति विबाधप्रज्ञप्तिर्वा 7-8-9-10, इयंच भगवतीत्यपि पूज्यत्वेनाभिधीयत इति / Oमतिमताम्, पक्षे उच्चानाम्,। 0 राज्ञः।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy