SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ | // 2 // प्रस्तावना। नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे / सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा // 2 // एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च / संयोज्य पञ्चमाङ्गं विवृणोमि विशेषतः किञ्चित् // 3 // व्याख्यातं समवायाख्यं चतुर्थमङ्गम्, अथावसरायातस्य विवाहपन्नत्ति त्तिसञ्जितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसूर्गनिपाताव्ययस्वरूपस्य घनोदारशब्दस्य लिङ्गविभक्तियुक्तस्य सँदाख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकस्य नानाविधौद्भुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुशलस्य निश्चयव्यवहारनयसमुन्नतकुम्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कालाधष्टप्रकारप्रवचनोपचारचारुपरिकरस्य, उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदाङ्कशवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोर्बहुप्रवरगुणत्वेऽपि ह्रस्वतया उत्तमस्य जयकुञ्जराभिधस्य। ॐ पदाश्चरणा पदानि सुप्तिङन्तानि। 0 विचक्षणा विद्वांसश्च। 0 शत्रुकृता दिव्याद्याश्च। 0 चवादयः आगमनं च। OR उभयत्र स्वरूपाविचलनम्। 0 हस्ति पक्षे मेघवद्गम्भीरध्वनेः, अतिशयेन सालङ्कारध्वनेः / हस्तिपक्षे पुरुषचिह्नरचनया युक्तस्यान्यत्र पुमादिप्रथमादिना। शोभनानि आख्यातानि यत्र, नित्यं प्रसिद्धस्य। हस्तिपक्षे ऽवयवाः सुवर्णाभरणै:0प्रवराणि चरितानि यत्र, पक्षे यस्य। ®सूत्ररूपो देहो यस्य, पक्षे सूत्रोक्तलक्षणयुक्तो8 देहो यस्य। 0 द्रव्यानुयोगः 1 चरणानुयोगः 2 गणितानुयोगः 3 धर्मकथानुयोगः 4 / 0 कालः 1 आत्मरूपम् 2 अर्थः 3 संबन्धः 4 उपकारः 5 गणिदेशः 68 संसर्गः 7 शब्दः 8 एतेऽष्ट / यद्वा काले विणए बहुमाणे इत्यादयोऽष्टौ ज्ञानोपचाराः। 9 हेतयः-शस्त्राणि विविधहेतव एव हेतयः पक्षे विविधहेतवो या हेतयः।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy