SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 326 // असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवन्तीति अक्खाया, ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मकप्पस्स बहुमज्झदेसभाए इति, वीइवइत्त त्ति व्यतिव्रज्य व्यतिक्रम्य जा सूरियाभविमाणस्स (पं०९)त्ति सूरिकाभविमानं राजप्रश्नीयोपाङ्गोक्तस्वरूपं तद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्येति, कियतीसावाच्या? इत्याह यावदभिषेकः, अभिनवोत्पन्नस्य सोमस्य राज्याभिषेकंयावदिति, साचेहातिबहुत्वान्न लिखितेति // अह इति तिर्यग्लोके वेमाणियाणं पमाणस्स (पं०१२)त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामर्द्ध ज्ञातव्यं सेसा नत्थि त्ति सुधर्मादि(काः) सभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात्, (पं०१४)सोमकाइय त्ति सोमस्य कायो निकायो येषामस्ति तेसोमकायिकाः सोमपरिवारभूताः सोमदेवयकाइय त्ति सोमदेवताः तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः, सोमसामानिकादिदेव परिवारभूता इत्यर्थः, तारारूव त्ति तारकरूपाः, तब्भत्तिय त्ति तत्र सोमे भक्तिः सेवा बहुमानो वा येषां ते तद्भक्तिकाः, तप्पक्खिय त्ति सोमपाक्षिकाः सोमस्य प्रयोजनेषु सहायाः, | तत्परिवारतब्भारिय त्ति तद्भार्याः तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्याः, तद्भारो वा येषांक भूततद्भक्तिवोढव्यतयास्ति ते तद्धारिकाः। गहदंड त्ति दण्डा इव दण्डाः तिर्यगायताः श्रेणयः, ग्रहाणां मङ्गलादीनां त्रिचतुरादीनां कदेव प्रश्नाः / ग्रहदंडग्रहदण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्भीयताः श्रेणयः, गहगज्जिय त्ति ग्रहसञ्चालादौगर्जितानि स्तनितानि ग्रहगर्जितानि, युद्धग्रहणादि ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रेदक्षिणोत्तरेण समश्रेणितयावस्थानानि,ग्रहसिङ्घाटकानि ग्रहाणां सिङ्घाटकफलाकारेणावस्थानानि, ग्रहापसव्यानि ग्रहाणामपसव्यगमनानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः, गन्धर्वनगराणि, आकाशे व्यन्तरकृतानि नगराकारप्रतिबिम्बानि, उल्कापाताः सरेखाः सोझ्योता वा तारकस्येव पाताः, दिग्दाहा अन्यतमस्यां दिश्यधोऽन्धकारा |३शतके उद्देशक: 7 लोकपालाधिकारः। सूत्रम् 165 शक्रस्यलोकपालाः तेषाश्चविमान प्रश्नाः / सोमस्य संध्याप्रभमहाविमानस्यस्थान स्वरूपादि तस्य वश्याः / // 326 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy