SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 323 // 3 शतके उद्देशक:६ नगराधिकारः। सूत्रम् 164 चमराऽऽत्मरक्षकदेव प्रश्नाः / चर्मपाणय इत्यत्र चर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्तमेवार्थ सङ्ग्रहणेनाह नीलपीए इत्यादि, अथवा नीलादीन् / सर्वानेव युगपत्केचिद्धारयन्ति देवशक्तेरिति दर्शयन्नाह नीलपीए इत्यादि, ते चात्मरक्षा न सज्ञामात्रेणैवेत्याह आत्मरक्षाः स्वाम्यात्मरक्षा इत्यर्थः, त एव विशेष्यन्ते रक्षोपगता रक्षामुपगताः सततं प्रयुक्तरक्षा इत्यर्थः, एतदेव कथमित्याह गुप्ता अभेदवृत्तयः, तथा गुप्तपालिकाः तदन्यतो व्यावृत्तमनोवृत्तिकाः मण्डलीकाः, युक्ताः परस्परसंबद्धाः, युक्तपालिका निरन्तरमण्डलीकाः प्रत्येकमेकैकशः, समयतः पदातिसमाचारेण, विनयतो विनयेन, किङ्करभूता इव प्रेष्यत्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षाद्दृश्यत एवेति / एवं सव्वेसिमिंदाणं ति, एवमिति चमरवत् सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षावाच्याः, ते चार्थत एवम्, सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षाः तत्र चतुःषष्टिः सहस्राणि चमरेन्द्रस्येन्द्रसामानिकानां बलेस्तु षष्टिः शेषभवनपतीन्द्राणां प्रत्येकं षट् सहस्राणि शक्रस्य चतुरशीतिरीशानस्याशीतिः सनत्कुमारस्य द्विसप्ततिः, माहेन्द्रस्य सप्ततिः, ब्रह्मणः षष्टिः,लान्तकस्य पञ्चाशच्छुक्रस्य चत्वारिंशत्, सहस्रारस्य त्रिंशत्, प्राणतस्य विंशतिरच्युतस्य दशसहस्राणि सामानिकानामिति,यदाह उसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं / सामाणियाउ एए चउगुणा आयरक्खा उ॥१॥चउरासीइ असीई बावत्तरि सत्तरी य सट्ठी य। पण्णा चत्तालीसा तीसा वीसा दस सहस्साँ॥२॥ति // 164 // तृतीयशते षष्ठ उद्देशकः // 36 // // 323 // 0चतुःषष्टिः षष्टिः खलु षट् सहस्राणि त्वसुरवर्जानाम्। सामानिकास्त्वेते चतुर्गुणा आत्मरक्षकास्तु॥ 1 // चतुरशीतिरशीतिसप्ततिः सप्ततिश्च षष्टिश्च / पञ्चाशचत्वारिंशत् त्रिंशद्विशतिर्दश सहस्राणि // 2 // 0 प्रज्ञा० स्थानपदे 134 1 0 प्रज्ञा० स्थानपदे 148 /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy