________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 322 // 3 शतके उद्देशक:६ नगराधिकारः। सूत्रम् 164 चमराऽऽत्मरक्षकदेव प्रश्नाः / चमरस्स णं भंते! असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी पण्णत्ता? गोयमा! चत्तारि चउसट्ठीओ (4464 = 256) आयरक्खदेवसाहस्सीओपण्णत्ताओ, तेणं आयरक्खा वण्णओजहा रायप्पसेणइज्जे, एवं सव्वेसिं इंदाणंजस्स जत्तिया आयरक्खा भाणियव्वा / सेवं भंते २॥सूत्रम् 164 // तइयसए छट्ठो उद्देसो समत्तो॥३-६॥ 16 वण्णओ त्ति, आत्मरक्षदेवानां वर्णको वाच्यः, स चायम्, सन्नद्धबद्धवम्मियकवय उप्पीलियसरासणपट्टिया पिणद्धगेवेज्जा / बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाइं तिसंधियाई वयरामयकोडीणि धणूई अभिगिज्झ पयओ परिमाइयकंडकलावा नीलपाणिणो पीयपाणिणोरत्तपाणिणो एवं चारुचाव चम्म-दंड-खग्ग-पासपाणिणो नील-पीय-रत्तचारुचाव-चम्म-दंडखग्ग पासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समयओ विणयओ किंकरभूया इव चिट्ठति त्ति, अस्यायमर्थः, संनद्धाः संनिहतिकया कृतसन्नाहाः, बद्धः कशाबन्धनतः, वर्मितश्च वर्मीकृतः शरीराऽऽरोपणतः कवचः कङ्कटो यैस्ते तथा, 8 ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यचारोपणेन शरासनपट्टिका धनुर्यष्टियस्ते तथा, अथवोत्पीडिता बाहौ बद्धा शरासनपट्टिका धनुर्द्धरप्रतीता यैस्ते तथा, तथा पिनद्धं परिहितं ग्रैवेयकं ग्रीवाभरणं यैस्ते तथा,तथा बद्धो ग्रन्थिदानेनाऽऽविद्धश्च / शिरस्यारोपणेन विमलो वरश्च चिह्नपट्टो योधतासूचको नेत्रादिवस्त्ररूपः सौवर्णो वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीतान्यायुधानि क्षेप्यास्त्राणि प्रहरणानि च तदितराणि यैस्ते तथा, त्रिनतानि मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, त्रिसन्धितानि त्रिषुस्थानकेषु कृतसन्धिकानि नैकाङ्गिकानीत्यर्थः, वज्रमयकोटीनि धनूंष्यभिगृह्य पदतः, पदे मुष्टिस्थाने तिष्ठन्तीति सम्बन्धः, परिमात्रिकः सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादिवर्णपुड्डत्वान्नीलादयो बाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापं धनुरेवानारोपितज्यमतो न पुनरुक्तता, // 322 //