________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 312 // 6-7 पभू ण मित्यादि, जाणं ति शकटम्, जुग्गं ति गोल्लविषयप्रसिद्धं जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितम्, गिल्लि त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिल्ली ति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते, सिय त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेषः, संदमाणिय त्ति पुरुषप्रमाणा ऽऽयामो जम्पानविशेषः, एगं महं पडागासंठियं ति महत् पूर्वप्रमाणापेक्षया (ऊर्ध्वपताका) (पतितपताका) पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिति, 8 आइड्डिए त्ति, आत्माऽऽत्मशक्त्याऽऽत्मलब्ध्यावा, आयकम्मुण त्ति, आत्मक्रियया, आयप्पओगेणं ति न परप्रयुक्त इत्यर्थः, 9 ऊसिओदयं ति, उच्छृत ऊर्द्धमुदय आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्द्धपताकमित्यर्थः, क्रियाविशेषणंचेदम, पतो(यओ)दयं ति पतदुदयं पतितपताकं गच्छति, ऊर्ध्वपताका स्थापना चेयम्, पतितपताकास्थापना त्वियम्, 10 (एकतः पताका) (द्विधा पताका) एगओपडागं ति एकतः- एकस्यां दिशि पताका यत्र तदेकत: पताकम्, स्थापना यम, 11 दुहओपडागं ति द्विधापताकम्, स्थापनात्वियम् // 157 // 12 रूपान्तरक्रियाधिकाराबलाहकसूत्राणि बलाहए त्ति मेघः, परिणामेत्तए त्ति बलाहकस्याजीवत्वेन विकुर्वणाया असम्भवात् परिणामयितुमित्युक्तम्, परिणामश्चास्य विश्रसारूपः, नो आयड्डीए त्ति, अचेतनत्वान्मेघस्य विवक्षितायाःशक्तेरभावानात्मा 3 शतके उद्देशकः४ सूत्रम् 157 वायुकायस्यस्त्र्यादिरूपविकुर्वणगमनसामर्थ्यप्रकारादि प्रश्नाः / सूत्रम् 158 बलाहकस्यस्त्र्यादिरूपपरिणमनगमनसामर्थ्यादि प्रश्ना:। // 312 //