________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 307 // 3 शतके उद्देशक:३ क्रियाप्ररूपणाधिकारः। सूत्रम् 154 मण्डितपुत्रस्य प्रमत्ताप्रमत्तकाल प्रश्नाः। क्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बध्नातीति भावः, से ति, ईर्यापथिकी क्रिया पढमसमयबद्धपुट्ठ त्ति (प्रथमसमये) बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेश: स्पर्शनात्ततः कर्मधारये तत्पुरुषे चसति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिताऽनुभूतस्वरूपा, एवं तृतीयसमये निर्जीर्णा, अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धास्पृष्टा प्रथमे समये द्वितीये त्वुदीरितोदयमुपनीता, किमुक्तं भवति? वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातम्, तृतीये तु निर्जीर्णा, ततश्च सेयकाले त्ति, एष्यत्कालेऽकम्म वावि त्ति, अकर्मापि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात्तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति, अत्तत्तासंवुडस्से त्यादिना चेदमुक्तम्, यदि संयतोऽपि साश्रवः कर्म बध्नाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्यमाणतयार्थतोऽधोनिमज्जनमुक्तम्, सक्रियस्य कर्मबन्धभणनाच्च, अक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्धगमनं सामर्थ्यादुपनीतमवसेयमिति // 153 // अथ यदुक्तं श्रमणानांप्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह 16 पमत्तसंजयस्सणं भंते! पमत्तसंजमे वट्टमाणस्स सव्वावियणं पमत्तद्धा कालओ केवच्चिर होइ?, मंडियपुत्ता! एगजीवं पडुच्च ज० एवं समयं उ० देसूणा पुव्वकोडी, णाणाजीवेप० सव्वद्धा॥१७ अप्पमत्तसंजयस्सणंभंते! अप्पमत्तसंजमे वट्टमाणस्स सव्वावि यणं अप्पमत्तद्धा का० के० होइ?, मंडियपुत्ता! एगजीवं प० ज० अंतोमुहुत्तं उ० पुव्वकोडी देसूणा, णाणाजीवे प० सव्वद्धं, सेवं भंते! २!त्ति भयवं मंडियपुत्ते अणगारे समणं भ० म० वनमं० रत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥सूत्रम् 154 // // 307 //