________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 306 // तिपृष्टेप क्षरणार्था' वितिवचनाच्छोकातिरेकादेवाश्रुलालादिक्षरण प्रापणायाम्, पिट्टावणताए त्ति पिट्टनप्रापणायां ततश्च 3 शतके परितापनायां शरीरसन्तापे वर्त्तते, क्वचित्पठ्यते दुक्खावणयाए इत्यादि, तच्च व्यक्तमेव, यच्च तत्र किलामणयाए उद्दावणयाए / उद्देशक:३ क्रियाप्ररूपइत्यधिकमभिधीयते तत्र किलामणयाए त्ति ग्लानिनयन उद्दावणयाए त्ति, उत्त्रासने // उक्तार्थविपर्यमाह- 13-14 जीवे ण णाधिकारः। मित्यादि, णो एयइ त्ति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते तथा च न प्राणादीनां सूत्रम् 153 जीवस्यैदुःखापनादिषु तथापि च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवति तत्र दृष्टान्तद्वयमाह 15 से जनादिजहे त्यादि, तिणहत्थयं ति तृणपूलकं जायतेयंसि त्ति वह्नौ मसमसाविज्जइ त्ति शीघ्रं दह्यते, इह च दृष्टान्तद्वयस्याप्युपनयार्थः अन्तक्रिया अदि प्रश्नाः / सामर्थ्यगम्यो यथा, एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाह्यदहनं स्यादिति / / अथ निष्क्रियस्यैवान्तक्रिया तदृष्टान्तादि। भवतीति नौदृष्टान्तेनाह से जहाणामए इत्यादि, इह शब्दार्थः प्राग्वद्, नवरमुद्दाइ त्ति, उद्याति जलस्योपरि वर्त्तते, अत्ततासंवुडस्सल त्ति, आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेवेरियासमियस्से त्यादिना प्रपञ्चयति, आउत्तं ति, आयुक्तमुपयोगपूर्वकमित्यर्थः, जाव चक्खुपम्हनिवायमवि त्ति किंबहुना? आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन? यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्र क्रियाप्यस्त्यास्तांगमनादिका तावदिति शेषः,वेमाय त्ति विविधमात्रा, अन्तर्मुहूर्तादेशोनपूर्वकोटीपर्यन्तस्य क्रिया कालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः, यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोतकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने सपेहाए त्ति दृश्यते तत्र च स्वप्रेक्षया // 306 // स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः, सुहुम त्ति सूक्ष्मबन्धादिकाला, ईरियावहिय त्ति, ईर्यापथोगमनमार्गस्तत्र भवा, ऐर्यापथिकी केवलयोगप्रत्ययेति भावः, किरिये ति कर्म सातवेदनीयमित्यर्थः, कज्जइ त्ति क्रियते भवतीत्यर्थः, उपशान्तमोह