________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 305 // क्रियाप्ररूप सूत्रम् 153 मेयइ त्ति, एजते कम्पते ,एज़ कम्पन इति वचनात्, वेयइ त्ति व्येजते विविधं कम्पते, चलइ त्ति स्थानान्तरं गच्छति, फंदइ त्ति 3 शतके स्पन्दते किश्चिच्चलति स्पदि किञ्चिच्चलन इति वचनात्, अन्यमवकाशंगत्वा पुनस्तत्रैवागच्छतीत्यन्ये, घट्टइ त्ति सर्वदिक्षुचलति उद्देशक:३ पदार्थान्तरं वा स्पृशति, खुब्भइ त्ति क्षुभ्यति पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा, उदीरइ त्ति प्राबल्येन प्रेरयति णाधिकारः। पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थमाह तं तं भावं परिणमइ त्ति, उत्क्षेपणावक्षेपणाऽऽकुञ्चनप्रसारणादिकं जीवस्यैपरिणामं यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविना अन्तक्रियायुगपदभावादिति, 11 तस्स जीवस्स अंते, त्ति मरणान्तेऽतकिरिय त्तिसकलकर्मक्षयरूपा, 12 आरंभइ त्ति, आरभते पृथिव्यादी ऽऽदि प्रश्नाः / नुपद्रवयति, सारंभइ त्ति, संरभते तेषु विनाशसङ्कल्पं करोति, समारंभइ त्ति समारभते तानेव परितापयति, आह च संकप्पो संरंभो / तदृष्टान्तादि। परितावकरो भवे समारंभो। आरंभो उद्दवओ सव्वनयाणं विसुद्धाणं॥१॥ इदंच क्रियाक्रियावतः (तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतःसूत्रमुक्तम्, अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आहारंभ इत्यादि, आरम्भेऽधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भेच, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह, आरम्भमाणः संरम्भमाणः समारम्भमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदित आरम्भे वर्तमान इत्यादिना तु द्वितीयः, दुक्खावणयाए इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वा दुःखापनायांमरणलक्षणदुःखप्रापणायामथवेष्टवियोगादि दुःखहेतुप्रापणायां वर्त्तत इति योगः, तथा शोकापनायां दैन्यप्रापणायाम्, जूरावणताए त्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायाम्, तिप्पावणताए त्ति तेपापनायां ®संकल्पो (मनसो) विचारः संरम्भः परितापकरो भवेत्समारम्भः / अपद्रावयत आरम्भः सर्वेषां विशुद्धनयानाम्॥१॥ (संरम्भः सकषायः(संकल्पः) पीरतापनया भवेत् समारम्भः आरम्भः प्राणिवध: त्रिविधो योगस्ततो ज्ञेयः / (तत्त्वार्थ० अ०६ सू०९भा०))