________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 297 // प्रश्नः / शक्र-वज्र द्विधाकृते द्वौभागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलितेत्रयः सङ्खयेया भागा भवन्त्यतस्तान्तिर्यग्गच्छति, सार्द्ध योजनमि- 3 शतके त्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात्,उड्ढ़ संखेज्जे भागे गच्छइ त्ति यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु उद्देशक:२ सूत्रम् 147 चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्गयातभागाः संभवन्त्यतस्तानूर्द्धगच्छति / अथ कथं सूत्रे सङ्ख्यात- देवस्यपुद्रलभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते?, उच्यते, जावइयं खेत्तं चमरे 3 अहे ओवयइ एक्केणं समएणं तं सक्के दोहिं, क्षेपप्रतिग्रह तथा सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोनिवि तुल्ले ति वचनतो निश्चीयते शक्रो यावदधो द्वाभ्यां समयाभ्यां गच्छति तावदूर्द्धमेकेनेति द्विगुणमधः क्षेत्रादूर्द्धक्षेत्रम्, एतयोश्चापान्तरालवर्ति तिर्यक्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन चमरेन्द्रा णामूर्खादि भवितव्यमित्यधः क्षेत्रापेक्षया तिर्यक्षेत्रं सार्द्ध योजनं भवतीति व्याख्यातम्, आह च चूर्णिकार, एगेणं समएणं ओवयइ अहे गतिकालयो रल्पबहुत्व जोयणं एगेणेव समएणं तिरियं दिवढं गच्छइ उड्ढे दो जोयणाणि सक्को त्ति // 26 चमरस्स ण मित्यादि सव्वत्थोवं खेत्तं चमरे 3 उड्डल उप्पयइ एक्केणं समएणं ति, ऊर्द्धगतौ मन्द गतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यूनं गव्यूतत्रयम्, तिरियं संखेज्जे भागे त्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यूतत्रये द्विगुणिते ये योजनस्य सङ्खयेया भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, अहे संखेज्जे भागे गच्छइ त्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते ये सङ्खयेयभागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः / अथ कथं सङ्ख्यातभागमात्रोपादाने नियतसङ्खयेयभागत्वं व्याख्यायते?, उच्यते, शक्रस्योर्द्धगतेश्चमरस्य चाधोगतेः समत्वमुक्तम्, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपंकल्पितमतश्चमरस्याधोगमनसमयेन योजनद्वयमुक्तम्, तथा जावइयं सक्के 3 उड्डे उप्पयइ एगेणं समएणं तं वजं दोहिं जं वज्जं दोहिं तं चमरे तिहिं ति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्द्धगतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्द्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, प्रश्नाः /