________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 298 // ऊर्द्धक्षेत्राधोगतिक्षेत्रयोश्चापान्तरालवर्ति तिर्यक्क्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषड्गव्यूतमानं तद्व्याख्यातमिति, यच्च चूर्णिकारेणोक्तं चमरो उड्ढ जोयण मित्यादि तन्नावगतम्, वजं जहा सक्कस्स तहेव त्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थं त्वाह नवरं विसेसाहियं कायव्वं ति, तच्चैवम्, वज्जस्स णं भंते! उड्ढे अहे तिरियं च गइविसयस्स कयरे कयरेहिंतो अप्पे वा 4?, गोयमा! सव्वत्थोवं खेत्तं वज्जे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागे गच्छइ तिउड् विसेसाहिए भागे गच्छइ त्ति, वाचनान्तरे त्वेतत्साक्षादेवोक्तमिति, अस्यायमर्थः, सर्वस्तोकं क्षेत्रं वज्रमधो व्रजत्येकेन समयेन, अधोमन्दगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यूनंयोजनम्, तिर्यक् तच्च विशेषाधिकौ भागौ गच्छति, शीघ्रतरगतित्वात्, तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिकौ सत्रिभागंगव्यूतत्रयमित्यर्थः तथोर्द्ध विशेषाधिकौ भागौ गच्छति, यौ किल तिर्यग्विशेषाधिकौ भागौ गच्छति तावेवोर्द्धगतौ किञ्चिद्विशेषाधिकौ, ऊर्द्धगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियतभागत्वं व्याख्यायते?, उच्यते, जावइयं चमरे 3 अहे. ओवयइ एक्केणं समएणं तावइयं सक्के दोहिंजंसक्के दोहिं तं वजे तिहिंति वचनसामर्थ्याच्छक्राधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यूनं योजनमिति सा व्याख्याता, तथा सक्कस्स ओवयणकाले वज्जस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले इति वचनादवसीयते यावदेकेन समयेन शक्रोऽधोगच्छति तावद्वज्रमूर्द्धम्, शक्रश्चैकेनाधः किल योजनमेवं वज्रमूर्खयोजनमितिकृत्वोई योजनंतस्योक्तम्, ऊ धोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवावसत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति // 27 अनन्तरंगतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्तम्, अथ गतिकालस्य तदाह सक्कस्सण मित्यादि सूत्रत्रयम्। शक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तमथ परस्परापेक्षया तदाह, एयस्स णं भंते! वज्जस्से त्यादि, एएणं बिण्णिवि तुल्ल 3 शतके उद्देशकः 2 सूत्रम् 147 देवस्यपुगलक्षेपप्रतिग्रह प्रश्नः। शक्र-वज्रचमरेन्द्राणामूर्खादि गतिकालयोरल्पबहुत्व प्रश्नाः / ||29