________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 29 // जेष्याम इत्यध्यवस्यन्तीति।नण्णत्थ त्ति ननु निश्चितम्, अत्रेहलोके, अथवा अरिहंते वा निस्साए उड्डं उप्पयंति नान्यत्र तन्निश्रयान्यत्र न, न तां विनेत्यर्थः॥१४३॥ २१(अपूर्णम्) दाणामाए त्ति दानमय्या, छउमत्थकालियाए त्ति छद्मस्थकाल एव छद्मस्थकालिका तस्यां दोवि पाए साह त्ति संहृत्य संह (ह)तौ कृत्वा, जिनमुद्रयेत्यर्थः, वग्घारियपाणि त्ति प्रलम्बितभुजः, ईसिंपन्भारगएणं तिप्राग्भारोऽग्रतोमुखमवनतत्वम्, अहापणिहिएहिं गत्तेहिं ति यथाप्रणिहितै यथास्थितैः / वीससाए त्ति स्वभावत एव / पासइ य तत्थ त्ति पश्यति च तत्र सौधर्मकल्पे मघवं ति मघा महामेघास्ते यस्य वशे सन्त्यसौ मघवानतस्तम्, पागसासणं ति पाको नाम बलवान् रिपुस्तं यः शास्ति निराकरोत्यसौपाकशासनोऽतस्तम्, सयक्कउंतिशतं क्रतूनां प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणांवा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुरतस्तम्, सहस्सक्खं ति सहस्रमणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणां पञ्च शतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्राक्षत्वमिति पुरन्दरं ति, असुरादिपुराणां दारणात् पुरन्दरस्तम्, जाव दस दिसाओ त्ति, इह यावत्करणा दाहिणवलोगाहिवई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणं सुरिंद अरयंबरवत्थधरं, अरजांसि च तान्यम्बरवस्त्राणि च स्वच्छतयाऽऽकाशकल्पवसनान्यरजोऽम्बरवस्त्राणि तानि धारयति यः स तथा तम्, आलइयमालमउडमालगितमालं मुकुटं यस्य स तथा तं नवहेमचारुचित्तचंचलकुण्डलविलिहिज्जमाणगंडं नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा तम्, इत्यादि तावद्वाच्यं यावद्दिव्वेणं तेएणं दिव्वाए लेसाए त्ति, अत यत्र यत्परिवारं यत्कुर्वाणं च तं पश्यति तथा दर्शयितुमाह, अपत्थियपत्थए त्ति, अप्रार्थितं प्रार्थयते यः स तथा, दुरंतपंतलक्खणे त्ति दुरन्तानि दुष्टावसानान्यत एव प्रान्तानि, अमनोज्ञानि 3 शतके उद्देशक:२ सूत्रम् 144 चमरेन्द्रजीवपूरणस्य दानमय्याप्रव्रज्या। असुरेन्द्रत्वप्राप्ति। सौधर्मेन्द्रसंप्रेक्षणं सुसुमारपुरे छद्यस्थी श्रीवीरंनिश्नयोोत्पातः वज्रनिःसृजनं भयाच्छ्री श्रीवीरपादयोः समवपतनमादि। // 220 //