SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 282 / / किश्चिदुच्चतरत्वेऽपि तेषां न विरोध इति / देसे उच्चे देसे उन्नए त्ति प्रमाणतो गुणतश्चेति // 138 // आलावं वा संलावं व त्ति, आलापः संभाषणं संलापस्तदेव पुनःपुनः। किच्चाई ति प्रयोजनानि करणिज्जाई ति विधेयानि / से कहमियाणिं करेंति त्ति, अथ कथमिदानीमस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः?, कार्याणीति गम्यम् / इति भो त्ति, इत्येतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, इति भो इति भोत्ति त्ति परस्परालापानुकरणम् // 139 // जं से वयइ तस्स आणाउववायवयणनिद्देसे त्ति यदाज्ञादिकमसौ वदति तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्वं व्याख्याता एवेति // 140 // 8 आराहए त्ति ज्ञानादीनामाराधयिता चरमे त्ति चरम एव भवो यस्याप्राप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः / हियकामए त्ति हितं सुखनिबन्धनं वस्तु, सुहकामए त्ति सुखं शर्म, पत्थकामए त्ति पथ्यं दुःखत्राणम्, कस्मादेवमित्यत आह, अणुकंपिए त्ति कृपावान्, अत एवाह निस्सेयसिय त्ति निःश्रेयसं मोक्षस्तत्र नियुक्त इव नैःश्रेयसिकः, हियसुहनिस्सेसकामए त्ति हितं यत्सुखमदुःखानुबन्धमित्यर्थः, तन्निःशेषाणां सर्वेषां कामयते वाञ्छति यः स तथा। पूर्वोक्तार्थसङ्ग्रहाय गाथे द्वे छढे त्यादि, इहाद्यगाथायां पूर्वार्द्धपदानां पश्चार्द्धपदैः सह यथासङ्घय सम्बन्धः कार्यः, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपः, (ग्रन्थाग्रम् 4000) तथा मासोऽर्द्धमासश्च भत्तपरिण्ण त्ति, अनशनविधिः, एकस्य मासिकमनशनमन्यस्य चार्द्धमासिकमिति भावः, तथैकस्याष्ट वर्षाणि पर्यायोऽन्यस्य च षण्मासा इति। द्वितीया गाथा गतार्था // 141 // मोया समत्त त्ति मोकाभिधाननगर्यामस्योद्देशकार्थस्य कीदृशी विकुर्वणा? इत्येतावद्रूपस्योक्तत्वान्मोकैवायमुद्देशक उच्यते॥ इति तृतीयशते प्रथमोद्देशकः संपूर्णः // 3-1 // ३शतके उद्देशक:१ कीदृशी चमरविकुर्वणा शक्तिः / सूत्रम् 138 सोधर्मशानयोर्विमानोचनीचत्व प्रश्नाः / सूत्रम् 139 तयोर्मिलापादिप्रश्राः। सूत्रम् 140 तयोर्विवादादि प्रश्नाः / सूत्रम् 141 सनत्कुमारस्य भवसिद्धिकवस्थित्यादिप्रश्ना:।
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy