________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 272 // घोषणां कुरु यदुत गच्छति भो! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत, कृतायां च तेन। 3 शतके तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेक देवगण उद्देशकः१ कीटशी परिवृतो नन्दीश्वरे द्वीपे कृतविमानसङ्केपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिःप्रदक्षिणीकृत्य चतुर्भिरङ्गुलैर्भुवमप्राप्त चमरविमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म, ततो धर्मं श्रुत्वैवमवादीत्, भदन्त! यूयं सर्वं जानीथ | विकुर्वणा शक्ति : / पश्यथ केवलं गौतमादीनां महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये सूत्रम् 134 मणिपीठिकां तत्र च सिंहासनम्, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणाद्भुजादष्टोत्तरं शतं देवकुमाराणां इशानेन्द्र देवर्धिप्रादुवामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यवरगीतध्वनिरञ्जित जनमानसं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामा- र्भावतिरोसेति / तए णं से ईसाणे देविंदे 2 तं दिव्वं देविड्डिं यावत्करणादिदमपरं वाच्यं यदुत दिव्वं देवजुई दिव्वं देवाणुभावं पडिसाहरइ भावी निरीक्ष्य तस्य प्राप्ति साहरित्ता खणेणं जाए एगभूए। तए णं ईसाणे 3 समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिवुडे त्ति, परियाल त्ति प्रश्नः तामलेः परिवारः। 16 कूडागारसालादिद्रुतो त्ति कुटाकारेण शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः स तथा, स चैवं भगवन्तं गौतम एवमवादीत्, ईशानेन्द्रस्य सा दिव्या देवर्द्धिः क्व गता? (क्वानुप्रविष्टा), गौतम! (शरीरंगता) शरीरकमनुप्रविष्टा। अथ केनार्थेनैवमुच्यते?, गौतम! यथा नाम कूटाकारशाला स्यात्, तस्याश्चादूरे महाजनसमूहस्तिष्ठति, स च महाभ्रादिकमागच्छन्तं पश्यति, दृष्ट्रा च तां कूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्या देवर्द्धिः (शरीरं गता) शरीरकमनुप्रविष्टेति / 17 किण्णे ति केन हेतुना? किंवा दच्चेत्यादि, इह दत्त्वाशनादिभुक्त्वान्तप्रान्तादिकृत्वा तपःशुभध्यानादि समाचर्यच प्रत्युपेक्षाप्रमार्जनादि, कस्सवेत्यादिवाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, जण्णं ति यस्मात्पुण्यात्, प्राणामा प्रव्रज्या। 8 // 272 //