________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ / / 251 // २शतके उद्देशकः 10 अस्तिकायाधिकारः। सूत्रम् 121 आकाशभेद अजीवदेसावि अजीवपदेसावि जे जीवा ते नियमा एगिदिया बेंदिया तेइंदिया चरिंदिया पंचेंदिया अणिंदिया, जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिंदिय देसा, जे जीवपदेसाते नियमा एगिदियपदेसा जाव अणिंदियपदेसा, जे अजीवा ते दुविहा प०, तंजहा- रुवीय अरूवीय, जे रूवी ते चउव्विहा प०, तंजहा-खंधाखंधदेसाखंधपदेसा परमाणुपोग्गला, जे अरूवी ते पंचविहा प०, तंजहा- धम्मत्थिकाए नो धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मत्थिकाए नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए(ये)।सूत्रम् 121 // 65 तत्र लोकालोकाकाशयोर्लक्षणमिदं धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् / तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्॥ 1 // इति // 66 लोगागासे ण मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे जीव त्ति संपूर्णानि जीवद्रव्याणि जीवस त्ति जीवस्यैव बुद्धिपरिकल्पिता द्यादयो विभागाः, जीवपएस त्ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशाः, निर्विभागा भागा इत्यर्थः, अजीव त्ति धर्मास्तिकायादयः, ननु लोकाकाशे जीवा अजीवाश्चेत्युक्ते तद्देशप्रदेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनाम्, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति?, नैवम्, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तरं गोयमा! जीवावी त्यादि, अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् / अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाहरूवी यत्ति मूर्ताः पुद्गला इत्यर्थः,अरूवी यत्ति, अमूर्त्ता धर्मास्तिकायादय इत्यर्थः,खंध त्ति परमाणुप्रचयात्मका: स्कन्धाः, स्कन्धदेशाः व्यादयो विभागाः, स्कन्धप्रदेशाः, तस्यैव निरंशा अंशाः, परमाणुपुद्गलाः स्कन्धभावमनापन्नाः परमाणव इति, ततोलोकाकाशे रूपिद्रव्यापेक्षयाऽजीवावि अजीवदेसावि अजीवपएसावी त्येतदर्थतः स्याद्, अणूनांस्कन्धानां चाजीवग्रहणेन ग्रहणात्, जे अरूवी ते पंचविहे त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा- आकाशास्तिकायस्तद्देश लोकाकाशे जीवादिरूप्यादिस्कंधादिअवस्थान प्रश्नाः / // 251 //