________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 235 // किंफले?,णाणफले, 39 से णं भंते! नाणे किं.?, विण्णाणफले, 40 सेणं भंते! विन्नाणे किं०?, पच्चक्खाणफले, 41 सेणं भंते! पच्चक्खाणे किं०?, संजमफले, 42 सेणं भंते! संजमे किं०?, अणण्हयफले, 43 एवं अणण्हवे(ये) तवफले, 44 तवे? वोदाणफले, 45 से णं भंते! वोदाणे किं फले? वोदाणे अकिरियाफले, 46 से णं भंते! अकिरिया किंफला?, सिद्धिपज्जवसाणफला प० * गोयमा!, गाहा-सवणेणाणे य विण्णाणे पच्चक्खाणेय संजमे / अणण्हए तवे चेव वोदाणे अकिरिया सिद्धी॥१॥॥सूत्रम् 112 // 37 तहारूव मित्यादि तथारूपमुचितस्वभावं कश्चन पुरुषं श्रमणं वा तपोयुक्तम्, उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः, माहनं वा स्वयं हनननिवृत्तत्वात्परं प्रति मा हनेतिवादिनम्, उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः, वाशब्दौ समुच्चये, अथवा श्रमणः साधुः माहनः श्रावकः सवणफले ति सिद्धान्तश्रवणफला, 38 णाणफले त्ति श्रुतज्ञानफलम्, श्रवणाद्धि श्रुतज्ञानमवाप्यते, 39 विण्णाणफले त्ति विशिष्टज्ञानफलम्, श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञानमुत्पद्यत एव, 40 पच्चक्खाणफले त्ति विनिवृत्तिफलम्, विशिष्टज्ञानो हि पापं प्रत्याख्याति, 41 संजमफले त्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव, 42 अणण्हयफले त्ति, अनावफलः, संयमवान् किल नवं कर्म नोपादत्ते, 43 तवफले त्ति, अनाश्रवो हि लघुकर्मत्वात्तपस्यतीति, 44 वोदाणफले त्ति व्यवदानं कर्मनिर्जरणम्, तपसा हि पुरातनं कर्म निर्जरयति, 45 अकिरियाफले त्ति योगनिरोधफलम्, कर्मनिर्जरातो हि योगनिरोधं कुरुते, 46 सिद्धिपज्जवसाणफले ति सिद्धिलक्षणं पर्यवसानफलं सकलफलपर्यन्तवर्ति फलं यस्यांसा तथा।गाह त्ति सङ्ग्रहगाथा, एतल्लक्षणं चैतद्, विषमाक्षरपादं वे' त्यादि छन्दःशास्त्रप्रसिद्धमिति // 112 // तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातथारूपस्य, असम्यग्भाषित्वादित्यसम्यग्भाषितामेव केषाञ्चिदर्शयन्नाह 2 शतके उद्देशक:५ अन्यतीर्थिक विचारः। सूत्रम् 112 श्रमणमाहनयोः पर्युपासना या श्रवणज्ञानविज्ञानादि सिद्धिअन्त। | उत्तरोत्तरफल प्रश्नाः / // 235 //