SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 227 // 2 शतके उद्देशक: 5 अन्यतीर्थिक गमनम्। योर्कीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः, परिघोऽर्गला येषांत उच्छ्रितपरिघाः, अथवोच्छ्रितो गृहद्वारादपगतः परिघो येषांत उच्छ्रितपरिघाः, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, अवंगुयदुवारे ति, अप्रावृतद्वाराः कपाटादिभिरस्थगित गृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पाषण्डिकाद्बिभ्यति,शोभन-N विचारः। मार्ग परिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या, अन्ये त्वाः, भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, सूत्रम् 108 तुङ्गिकायां चियत्तंतेउरघरप्पवेसा, चियत्तो त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्राना- जातिसंपन्न कुत्रिकापणशङ्कनीयास्त इत्यर्थः, अन्ये त्वाहुः, चियत्तो त्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः शिष्टजनप्रवेशनं येषां ते तथा, अनीर्ष्यालुता भूतादिश्रीप्रतिपादनपरं चेत्थं विशेषणमिति, अथवा चियत्तो त्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चित्प्रवेशो यैस्ते तथा, बहूहि / पापित्यामित्यादि, शीलव्रतान्यणुव्रतानि, गुणा गुणव्रतानि विरमणान्यौचित्येन रागादिनिवृत्तयः प्रत्याख्यानानि पौरुष्यादीनि, पौषधं पर्वदिनानुष्ठानं तत्रोपवासोऽवस्थानं पौषधोपवासः, एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् / पौषधोपवास इत्युक्तम्, पौषधं च / यदा यथाविधं च ते कुर्वन्तो विहरन्ति तदर्शयन्नाह चाउद्दसे त्यादि, इहोद्दिष्टा, अमावास्या, पडिपुण्णं पोसहं ति, आहारादि-2 भेदाच्चतुर्विधमपि सर्वतः वत्थपडिग्गहकंबलपायपुंछणेणं ति, इह पतगृहं पात्रं पादप्रोञ्छनं रजोहरणं पीढे त्यादि पीठमासनं फलकमवष्टम्भनफलकं शय्यावसतिबृहत्संस्तारको वा, संस्तारको लघुतरः, एषां समाहारद्वन्द्वोऽतस्तेन, अहापरिग्गहिएहिं ति यथाप्रतिपन्नै पुनर्वासं नीतैः // 107 // ३४(अपूर्णम्) तेणं कालेणं 2 पासावच्चिन्ना थेरा भगवंतो जातिसंपन्ना कुलसं० बलसं० रूवसं० विणयसं० णाणसं० दंसणसं० चरित्तसं० लज्जासं० लाघवसं० ओयंसी तेयंसी वच्चंसी जसंसी जियकोहा जियमाणा जियलोभा जियनिद्दा जितिंदिया जियपरीसहा // 220
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy