SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 2 शतके उद्देशक:२ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 216 // समुद्धातः। सूत्रम् 97 सप्तसमुद्धात प्रश्नाः / 19 कति णं भंते! समुग्घाया प०?, गोयमा! सत्त समुग्घाया प०, तंजहा- वेदणासमुग्घाए एवं समुग्घायपदं छाउमत्थियसमुग्घायवखंभाणियव्वं, जाव वेमाणियाणं कसायसमुग्घाया अप्पाबहुयं / 20 अणगारस्सणंभंते! भावियप्पणो केवलिसमुग्धाय जाव सासयमणागयद्धं चिटुंति, समुग्घायपदंनेयव्वं ॥सूत्रम् 97 // बितीयसए बितीयोद्देसो भाणियव्वो // 2-2 // 19(20) कइ णं भंते! समुग्घाए त्यादि, तत्र हन हिंसागत्योरिति वचनाद्धननानि घाताः सम्, एकीभावे, उत् प्राबल्येन / ततश्चैकीभावेन प्राबल्येन च घाताः समुद्धाताः, अथ केन सहकीभावः?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्धातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, अथ प्राबल्येन घाताः कथम्?, उच्यते, यस्माद्वेदनादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य, उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति / सत्त समुग्घाय त्ति वेदनासमुद्धातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह छाउमत्थिए त्यादि, छाउमत्थियसमुग्घायवज्जं ति कइ णं भंते! छाउमत्थिया समुग्घाया पण्णत्ते त्यादिसूत्रवर्जितं समुग्घायपयं ति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यम्, तच्चैवम् कइ णं भंते! समुग्घाया प.?, गोयमा! सत्त समुग्घाया प०, तंजहा- वेयणासमुग्घाए कसायसमुग्घाए इत्यादि, इह सङ्गहगाथा वेयण 1 कसाय 2 मरणे 3 वेउब्विय 4 तेयए य 5 आहारे 6 / केवलिए चेव 7 भवे जीवमणुस्साण सत्तेव॥१॥जीवपदे मनुष्यपदे च सप्त वाच्याः , नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्धातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानांशातं करोति, कषायसमुद्धातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्मपुद्गलानां वैकुर्विकसमुद्धातेन समुद्धतो जीवः प्रदेशान् शरीरादहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्रारबद्धान् // 216 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy