SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 215 // सिरसावत्तं ति शिरसाप्राप्तमस्पृष्टम्, अथवा शिरस्यावर्त्त आवृत्तिरावर्त्तनं परिभ्रमणं यस्यासौ सप्तम्यलोपाच्छिरस्यावतस्तम्, सढि भत्ताई ति प्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैः षष्टिर्भक्तानि त्यक्तानि भवन्ति, अणसणाए त्ति प्राकृतत्वादनशनेन छेइत्त त्ति छित्त्वा परित्यज्य आलोइयपडिकते त्ति, आलोचितं गुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तमकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः, अथवाऽऽलोचितश्चासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः // 95 // परिणिव्वाणवत्तियं ति परिनिर्वाणं मरणंतत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्यय: हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽतस्तम्, कहिं गए त्ति कस्यां गतौ कहिं उववण्णे त्ति क्व देवलोकादौ? इति / एगइयाणं ति, एकेषां न तु सर्वेषाम्। आउक्खए णं ति, आयुष्ककर्मदलिकनिर्जरणेन भवक्खएणं ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन ठितिक्खएणं ति, आयुष्ककर्मणः स्थितेर्वेदनेन, अणंतरं ति देवभवसम्बन्धिनम्, चयन्ति शरीरम्, चइत्त त्ति त्यक्त्वा, अथवा चयं तिच्यवं च्यवनम्, चइत्त त्ति च्युत्वा कृत्वानन्तरं क्व गमिष्यति? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति / / 96 // द्वितीयशते प्रथमः॥ 2 शतके उद्देशकः१ उच्छवास: स्कन्दकश्च सूत्रम् |95-96 स्कन्दकचरितम्। विपुलपर्वताऽऽरोहणदर्भसंस्तारकपादोपगमनप्रत्याख्यानसमाधिप्राप्त कालगतः। अच्युतकल्पोपपातश्च्युत्वामहाविदेहे सेत्स्यति। उद्देशक: 2 // 215 // अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, केण वा मरणेण मरमाणे जीवे वड्डइ त्ति प्रागुक्तम्, मरणं च मारणान्तिकसमुद्धातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् तस्यान्यथान्य चायमभिसम्बन्धायशतके द्वितीयोदेश
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy