________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 212 // मम अंतिए तेणेव हव्वमागए, से नूणं खंदया! अढे सम??, हंता अत्थि, अहासुहं देवाणुप्पिया! मा पडिबंधं // सूत्रम् 14 // १८(अपूर्णम्) पुव्वरत्तावरत्तकालसमयंसि त्ति पूर्वरात्रश्च रात्रेः पूर्वो भागः, अपररात्रश्चापकृष्टा रात्रिः पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मक: समयःस तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् पुव्वरत्तावरत्तकालसमयंसि त्ति स्याद्, धर्मजागरिकां जाग्रतः कुर्वत इत्यर्थः, तं अत्थि ता मे त्ति तदेवमप्यस्ति तावन्ममोत्थानादि न सर्वथा क्षीणमिति भावः, तं जाव ता मे अत्थि त्ति तत्तस्माद्यावत्तेति भाषामात्रे मे ममास्ति जाव य त्ति यावच्च सुहत्थि त्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवनिर्वाणे शोकदुःखभाजनं मा भूवमहमित्यभिप्रायेण वा चिन्तितमनेनेति, कल्लमि त्यादि, कल्लं ति श्वः प्रादुः प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां फुल्लोत्पलकमलकोमलोन्मीलिते फुल्लं विकसितं तच्च तदुत्पलं च फुल्लोत्पलं तच्च कमलश्च हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलमकठोरमुन्मीलितम्, दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन्, अथे ति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुकमुखस्य गुञ्जार्द्धस्य च रागेण सदृशो यः स तथा तस्मिन्,तथा कमलाकरा: ह्रदादयस्तेषु षण्डानि नलिनीषण्डानि तेषां बोधको यः स कमलाकरषण्डबोधकस्तस्मिन्नुत्थितेऽभ्युद्गते, कस्मिन्? इत्याह सूरे, पुनः किम्भूते? इत्याह कडाईहिं ति, इह पदैकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात्, तत्र कृता योगाः प्रत्युपेक्षणादिव्यापारा येषां सन्ति ते कृतयोगिन आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, विउलं ति विपुलं विपुलाभिधानं मेघघणसंनिगासंति घनमेघसदृशं सान्द्रजलदसमानं कालकमित्यर्थः, देवसंनिवार्य ति देवानां संनिपातः समागमो रमणीयत्वाद्यत्र स तथा तम्, पुढविसिलापट्टयं ति पृथिवीशिलारूप: पट्टक आसनविशेषः पृथिवीशिलापट्टकः, 2 शतके उद्देशकः१ उच्छवास: स्कन्दकश्च सूत्रम् 94 स्कन्दकचरितम्। तपस्कर्मणा शुष्कधमनीसंततोजातः। धर्मजागरिकाऽनशनमनोरथोभगवदनुज्ञादि। // 212 //