________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 208 // ऽतीतकालनिर्देशोऽपिन दुष्ट इति ।मासियं ति मासपरिमाणां भिक्खुपडिमं ति भिक्षुचितमभिग्रहविशेषम्, एतत्स्वरूपंच गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं / दत्तेगभोयणस्सा पाणस्सवि एग जा मासं॥१॥ इत्यादि। नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह गच्छे च्चिय णिम्माओ जा पुव्वा दस भवे असंपुण्णा। नवमस्स तइयवत्थू होइ जहण्णो सुयाहिगमो॥१॥इति कथं न विरोधः?, उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः, तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति / अहासुत्तं ति सामान्यसूत्रानतिक्रमेण, अहाकप्पं ति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा, अहामगं ति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा, अहातच्चं ति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलङ्घनेनेत्यर्थः, अहासम्मं ति यथासाम्यं समभावानतिक्रमेण, कारणं ति न मनोरथमात्रेण, फासेइ त्ति, उचितकाले विधिना ग्रहणात्, पालेइ त्ति, असकृदुपयोगेन प्रतिजागरणात्, सोहेइ त्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात्, शोधयति वातिचारपङ्कक्षालनात्, तीरेइ त्ति पूर्णेऽपि तदवधौ स्तोतकालावस्थानात्, पूरेइ त्ति पूर्णेऽपि तदवधौ तत्कृत्यपरिमाणपूरणात्, किट्टेइ त्ति कीर्त्तयति पारणकदिन इदंचेदं चैतस्याः कृत्यम्, तच्च मया कृतमित्येवं कीर्तनात्, अणुपालेइत्ति तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति? इत्याह, आज्ञयाऽऽराधयतीति, एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तराविन्दिवा सप्ताहोरात्रमानाः, एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः, राइंदिय त्ति रात्रिन्दिवा, एकादशी, अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, एगराइय त्ति, एकरात्रिकी, गच्छाद्विनिष्क्रम्य मासिकी महाप्रतिमा प्रतिपद्यते, एका दत्तिर्भोजनस्य, एका पानस्यापि मासं यावत्॥१॥0 गच्छ एव निर्मातो यावदसंपूर्णानि पूर्वाणि दश भवेयुः / जघन्यः श्रुताभिगमो नवमस्य तृतीयवस्तु यावद्भवति // 1 // 2 शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 93 स्कन्दकचरितम्। कृतङ्गलानगरीत: छत्रपलाशचैत्यतः निष्क्रमणैकादशाङ्गाध्ययनभिक्षुप्रतिमागुणरत्नसंवत्सरादितपकर्मादिभिरात्मानं भावयन्तिष्ठति। // 208 //