________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 204 // 2 शतके उद्देशक:१ उच्छ्वास: स्कन्दक यत्ति, इह वह्निनेति वाक्यशेषो दृश्यः, झियायमाणंसि त्ति ध्यायमाने ध्मायति वा, दह्यमान इत्यर्थः, अप्पसारे त्ति, अल्पंच तत्सारं चेत्यल्पसारम्, आयाए त्ति, आत्मना, एकान्तं विजनमन्तं भूभागम्, पच्छा पुराय त्ति विवक्षितकालस्य पश्चात् पूर्वं चल सर्वदैवेत्यर्थः थेजे त्ति स्थैर्यधर्मयोगात् स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात्, बहुमतो। स्कन्दकश्च सूत्रम् 92 बहुशो बहुभ्यो वान्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः, अनुमतोऽनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः,भंडकरंडगसमाणे त्ति भाण्डकरण्डकमाभरणभाजनं तत्समान आदेयत्वादिति ।माणं सीत मित्यादौ माशब्दो निषेधार्थः, णमिति वाक्यालङ्का चरितम्। प्रतिबोधः। रार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा मा, एनमात्मानमिति व्याख्येयम्, वाल त्ति व्यालाः श्वापदभुजगाः, धर्मनिशमिमाणं वाइयपित्तियसंभियसन्निवाइय त्ति, इह प्रथमाबहुवचनलोपो दृश्यः, रोगायंक त्ति रोगाः कालसहा व्याधय आतङ्कास्त एव तुमिच्छा। पर्षदि सद्यो घातिनः, परीसहोवसग त्ति, अस्य मा णमित्यनेन सम्बन्धः, स्पृशन्तु छुपन्तु भवन्त्वित्यर्थः, त्तिकवि त्यभिसन्धाय यः / धर्मकथनं पालित इति शेषः,स किम्? इत्याह तंइच्छामि त्ति तत्तस्मादिच्छामि,सयमेव त्ति स्वयमेव भगवतैवेत्यर्थः प्रव्राजितं रजोहरणादि- | दीक्षायाचना दीक्षा नैर्ग्रन्थं वेषदानेनात्मानमिति गम्यते, भावेवाक्तप्रत्ययस्तेन प्रव्राजनमित्यर्थः, मुण्डितं शिरोलुञ्चनेन, सेहावियं ति सेहितं प्रत्युपेक्षणादि- चप्रवचन क्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतः तथाऽऽचारः श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो भिक्षाटनम्, पुरतः कृत्वा विहरणम्। एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः प्रतीतो वैनयिकं तत्फलं कर्मक्षयादि चरणं व्रतादि करणं पिण्डविशुद्ध्यादि यात्रा संयमयात्रा मात्रा तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिर्वर्त्तनं यत्रासौ माता॥२०४॥ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम्, आख्यातमभिहितमिच्छामीति योगः। एवं देवाणुप्पिया! गंतव्वं ति युगमात्रभून्यस्तदृष्टिनेत्यर्थः, एवं चिट्ठियव्वं ति, निष्क्रमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोलस्थानेन