________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 200 // 2 शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 91 श्रीवीरस्योदारादिशरीरं मुपगतः, पीइमणे त्ति प्रीतिः प्रीणनमाप्यायनं मनसि यस्य स तथा, परमसोमणस्सिए त्ति परमं सौमनस्यं सुमनस्कता संजातं यस्यस परमसौमनस्यितस्तद्वास्यास्तीति परमसौमनस्यिकः, हरिसवसविसप्पमाणहियए त्ति हर्षवशेन विसर्पद्विस्तारंव्रजद्धृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति / दव्वओणंएगे लोए सअंते त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, आयामविक्खंभेणं ति, आयामो दैर्घ्यम्, विष्कम्भो विस्तारः, परिक्खेवेणं ति परिधिना, भुविंसु य त्ति, अभवदित्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तम्, धुवे त्ति ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह णियए। प्रेक्ष्य हर्षः पर्युपासना। त्ति नियत एकस्वरूपत्वात्, नियतरूप: कादाचित्कोऽपि स्यादत आह सासए त्ति शाश्वतः प्रतिक्षणं सद्भावात्, सच नियतकालापेक्षयापि स्यादित्यत आह, अक्खए त्ति, अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह,8 अव्वए त्ति, अव्ययस्तत्प्रदेशानामव्ययत्वात्, अयं च द्रव्यतयापि स्यादित्याह, अवट्ठिए त्ति, अवस्थितः पर्यायाणामनन्ततयावस्थितत्वात्, किमुक्तं भवति? नित्य इति, वण्णपज्जवत्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपिगुरुलघुपर्यवास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानां च, नाणपज्जव त्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरेतु कार्मणादिद्रव्याणि जीवस्वरूपंचाश्रि वशाादि त्येति / जेवि य ते खंदया पुच्छ त्ति, अनेन समग्रं सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तर सूत्रांशश्चसूचितः, तच्चद्वयमप्येवं जेवि य ते खंदया इमेयारूवे जाव किं सअंता सिद्धी अणंता सिद्धी तस्सवि य णं अयमढे, एवं खलु मए खंदया! चउब्विहा सिद्धी पण्णत्ता, तंजहा- दव्वओ खेत्तओ कालओ भावओत्ति, दव्वओ णं एगा सिद्धि त्ति, इह सिद्धिर्यद्यपि परमार्थतः सकलकर्मक्षयरूपा। सिद्धाधाराऽऽकाशदेशरूपा वा तथापि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्प्राग्भारा पृथिवी सिद्धिरुक्ता, किंचिविसेसाहिए (ज्ञानेन ज्ञात्वा) श्रीवीरस्य पृच्छापूर्व द्रव्यादितः सान्तताति शङ्कानिरासन वलन द्वादशमरण प्रश्ननिराकरणम्। // 200 //