________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 199 // 2 शतके उद्देशक:१ उच्छ्वासः स्कन्दकश्च सूत्रम् 91 श्रीवीरस्योदारादिशरीरं प्रेक्ष्य हर्ष: पर्युपासना। (ज्ञानेन त्तं पंडियम० / इच्चेएणं खं०! दुविहेणं मरणेणं मरमाणे जीवे व० वा हा० वा॥ सूत्रम् 91 // छ १८(अपूर्णम्) धम्मायरिए त्ति कुत एतत्? इत्याह धम्मोवएसए त्ति, उत्पन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अर्हद्वन्दनाद्यर्हत्वात्, जिनो रागादिजेतृत्वात्, केवल्यसहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागत विज्ञायकः, स च देशज्ञोऽपि स्यादित्याहसर्वज्ञः सर्वदर्शी, वियट्टभोइ त्ति व्यावृत्ते 2 सूर्ये भुङ्क्ते, इत्येवंशीलो व्यावृत्तभोजी प्रतिदिनभोजीत्यर्थः,ओरालं ति प्रधानं सिंगारं ति शृङ्गारोऽलङ्कारादिकृता शोभा तद्योगाच्छृङ्गारम्, शृङ्गारमिव शृङ्गारमतिशयशोभावदित्यर्थः, कल्याणं श्रेयः, शिवमनुपद्रवमनुपद्रवहेतुर्वा, धन्यं धर्मधनलब्धृतत्र वा साधु तद्वार्हति, मङ्गल्यं मङ्गले हितार्थप्रापके साधुमाङ्गल्यम्, अलङ्कृतं मुकुटादिभिर्विभूषितं वस्त्रादिभिस्तन्निषेधादनलङ्कृतविभूषितम्, लक्खणवंजणगुणोववेयं ति लक्षणं मानोन्मानादि, तत्र मानं जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषो हि तुलारोपितोयद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसा-2 वुच्यते, प्रमाणं पुनः स्वाङ्गलेनाष्टोत्तरशताङ्गलोच्छ्रयता, यदाह जलदोणमद्धभारं समुहाइ समूसिओ उ जो नव उ। माणुम्माणपमाणं 8 तिविहं खलु लक्खणं एयं ॥१॥व्यञ्जनं मषतिलकादिकमथवा सहज लक्षणं पश्चाद्भवं व्यञ्जनमिति, गुणाः सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, सिरीए त्ति लक्ष्म्या शोभया वा॥ हट्ठतुट्ठचित्तमाणदिए त्ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा विस्मितं तुष्टं च सन्तोषवञ्चित्तं मनो यत्र तत्तथा, तद्धृष्टतुष्टचित्तं यथा भवत्येवम्, आनन्दित ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च नंदिए त्ति नन्दितस्तैरेव समृद्धतरता®जलद्रोणो मानमर्द्धभार उन्मानं स्वमुखानि नव समुच्छ्रितस्तु मानोन्मानप्रमाणानि, एतत्रिविधं लक्षणम् // 1 // ज्ञात्वा) श्रीवीरस्य पृच्छापूर्व द्रव्यादितः सान्ततादि शङ्कानिरासन वलन्वशात्तादि द्वादशमरण प्रश्ननिराकरणम्। // 199 //