________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 187 // २शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 86 वायुकाय प्रश्नाः / कथञ्चिदोरालियवेउब्वियाई विप्पजहाये त्यादि, अयमर्थः, औदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति // 86 // * वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति / दर्शयन्नाह 13 मडाई णं भंते! नियंठ, इत्यादि, मृतादी प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्यम्, निर्ग्रन्थः साधुरित्यर्थः हव्वं शीघ्रमागच्छतीति योगः। किंविधः सन्? इत्याह नो निरुद्धभवेत्ति, अनिरुद्धागेतनजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च स्वकायस्थि तिसशरीरभवद्वयप्राप्तव्यमोक्षोऽपि स्यादित्याह नो निरुद्धभवपवंचे त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभवप्रपञ्चापेक्षयापिड निष्क्रमणादि स्यादित्यत आह णो पहीणसंसारे त्ति, अप्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव नो पहीणसंसारवेयणिज्जेत्ति, अप्रक्षीणसंसारवेद्यकर्मा, अयंच सकृच्चतुर्गतिगमनतोऽपि स्यादित्यत आह नो वोच्छिन्नसंसारे त्ति, अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत सूत्रम् 87 मृतसाधुएव नो वोच्छिन्नसंसारवेयणिज्जे त्ति नो नैव व्यवच्छिन्नम्, अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा, अत एव नो जीवस्य मनुष्यत्वादिनिट्ठियढे त्ति, अनिष्ठितप्रयोजनः, अत एव नो निट्ठियट्ठकरणिज्जे त्ति नो नैव निष्ठितार्थानामिव करणीयानि कृत्यानि यस्य स संसारवृद्धि तथा, यत एवंविधोऽसावतः पुनरपीति, अनादौ संसारे पूर्व प्राप्तमिदानीं पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयमित्थत्थं ति, इत्यर्थम्, एनमर्थम्, अनेकशस्तिर्यङ्नरनाकिनारकगतिगमनलक्षण मित्थत्त मिति पाठान्तरं तत्रानेन प्रकारेणेत्थं तद्भाव इत्थत्वम्,मनुष्यादित्वमिति भावः,अनुस्वारलोपश्चप्राकृतत्वात्,हव्वं तिशीघ्रमागच्छइत्तिप्राप्नोति,अभिधीयतेच कषायोद // 187 // यात्प्रतिपतितचरणानां चारित्रवतां संसारसागरपरिभ्रमणम्, यदाह जइ उवसंतकसाओ लहइ अणंतं पुणोविपडिवायं ति॥८७॥ उपशान्तकषायोऽपि यद्यनन्तं कालं यावद्विप्रतिपातं लभते (तदा का वार्ताऽन्यस्य सकषायस्य?). प्रश्नाः /