________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 183 // २शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 84 प्रश्नाः / ॥अथ द्वितीयं शतकम्॥ // द्वितीयशतके प्रथमोद्देशकः॥ व्याख्यातं प्रथमंशतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्य चायमभिसम्बन्धः, प्रथमशतान्तिमोद्देशकान्ते / / जीवानामुत्पादविरहोऽभिहितः, इह तु तेषामेवोच्छ्रासादि चिन्त्यत इत्येवंसम्बन्धस्यास्येदमुपोद्घातसूत्रानन्तरसूत्रम् एकेन्द्रियादि 1 गाहा- ऊसासखंदए वि य 1 समुग्धाय 2 पुढविं 3 दिय 4 अन्नउत्थिभासा 5 य / देवा य 6 चमरचंचा 7 समय 8 खित्त 9 जीवानां उच्छ्वासादि थिकाय 10 बीयसए॥१॥ 2 तेणं कालेणं 2 रायगिहे नामं नगरे होत्था, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा। 3 तेणं कालेणं 2 जेट्टे अंतेवासी जाव पञ्जुवासमाणे एवं व०-जे इमे भंते! बेइंदिया तेइं० चउरिं० पंचें जीवा एएसिणं आणाम वा पाणामं वा उस्सासंवा नीसासंवा जाणामो पासामो, जे इमे पुढविक्काइया वणस्सइकाइया एगिंदिया जीवा एएसिणं आ० वा पा० वा उ० वा नि० वाण याणामो ण पासामो, एएसिणं भंते! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा? हता गोयमा! एएवि(य)णं जीवा आ० वा पा० वा उ० वा नी० वा / / सूत्रम् 84 // 3 जे इम इत्यादि, यद्यप्येकेन्द्रियाणामागमादिप्रमाणाज्जीवत्वं प्रतीयते तथापि तदुच्छ्रासादीनां साक्षादनुपलम्भाजीवशरीरस्य च निरुच्छासादेरपि कदाचिद्दर्शनात् पृथिव्यादिषुच्छ्रासादिविषया शङ्का स्यादिति तन्निरासाय तेषामुच्छ्रासादिकमस्तीत्येतस्यागमप्रमाणप्रसिद्धस्य प्रदर्शनपरमिदंसूत्रमवगन्तव्यमिति ॥८४॥उच्छ्रासाद्यधिकाराज्जीवादिषु पञ्चविंशती पदेषूच्छासादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन्नाह