________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 176 // भाषा तथा पुव्वं किरिए इत्यादि, क्रिया कायिका सा यावन्न क्रियते तावद्दुक्ख त्ति दुःखहेतुः, कज्जमाण त्ति क्रियमाणा क्रिया न ज १शतके दुक्खा न दुक्खहेतुः, क्रियासमयव्यतिक्रान्ते च क्रियायाः क्रियमाणताव्यतिक्रमे च, कृता सती क्रिया दुःखेति, इदमपि उद्देशकः 10 सूत्रम् 80 तन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्व क्रिया दुःखाऽनभ्यासात्, क्रियमाणा क्रिया न दुःखाऽभ्यासात्, कृता क्रिया परमाणुस्नेहदुःखाऽनुतापश्रमादेः, करणओ दुक्ख त्ति करणमाश्रित्य करणकाले कुर्वत इत्यर्थः, अकरणओ दुक्ख त्ति, अकरणमाश्रित्याकुर्वत भाषाकर्म क्रियाऽऽदिषु इतियावत्, नो खलु सा करणओ दुक्खत्ति, अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् / सेवं वत्तव्वं सिया, अथैवं पूर्वोक्तं अन्यतीर्थिक वक्तव्यता वस्तु वक्तव्यं स्यादुपपन्नत्वादस्येति / अथान्ययूथिकान्तरमतमाह, अकृत्यमनागतकालापेक्षयाऽनिर्वर्तनीयंजीवैरिति गम्यम्, प्रश्नाः / दुःखमसातं तत्कारणं वा कर्म, तथाऽकृत(त्य)त्वादेवास्पृश्यमबन्धनीयम्, तथा क्रियमाणं वर्तमानकाले कृतं चातीतकाले भाषेत्यादि तनिषेधादक्रियमाणकृतम्, कालत्रयेऽपि कर्मणो बन्धनिषेधादकृत्वाऽकृत्वा, आभीक्ष्ण्ये द्विवचनम्, दुःखमिति प्रकृतमेव, के? इत्याह, प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम्, प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया क्रियादि ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥वेयणं शुभाशुभकर्मवेदनांपीडां वा वेदयन्त्यनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, यादृच्छिकं हि सर्व लोके सुखदुःखमिति, यदाह, अतर्कितोपस्थितमेव सर्वम्, चित्रं जनानां सुखदुःखजातम् / काकस्य तालेन यथाभिघातो, न बुद्धिपूर्वोऽत्र वृथाभिमानः॥१॥से कहमेयं ति, अथ कथमेतद्भदन्त! एवम्? अन्ययूथिकोक्तन्यायेन? इति प्रश्नः जंणं ते अण्णउत्थियेत्याधुत्तरम्, व्याख्या चास्य प्राग्वत्, मिथ्या चैतदेवं यदि चलदेव प्रथमसमये चलितं न // 176 // भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति न कदाचनापि चलेत्, अत एव वर्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम्, एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते, चलितकार्याकरणादचलितमेवेति, तदयुक्तम्, यतः प्रतिक्षणमुत्पद्यमानेषु अकरणत: प्रश्नाः /