SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 1 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 177 // वक्तव्यता भाषा स्थासकोशादि वस्तुष्वन्त्यक्षणभाविवस्त्वाद्यक्षणेस्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलितं कार्य विवक्षितं परेण तदाद्यसमयचलितं यदि न करोति तदा क इव दोषोऽत्र?, कारणानां स्वस्वकार्यकरणस्वभावत्वादिति। यच्चोक्तं- द्वौ उद्देशकः 10 सूत्रम् 80 परमाणून संहन्येते, सूक्ष्मतयास्नेहाभावात्, तदयुक्तम्, एकस्यापि परमाणोः स्नेहसम्भवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्यु- परमाणुस्नेहपगमाच्च, यत उक्तम्, तिण्णि परमाणुपोग्गला एगयओ साहणंति ते भिज्जमाणा दुहावि तिहावि कज्जति, दुहा कज्जमाणा एगओ दिवड्डे / भाषाकर्म क्रियाऽऽदिषु त्ति, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः स्नेहाभावेन सङ्घाताभाव अन्यतीर्थिकइति, यच्चोक्तम्, एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरर्धीकरणे परमाणुत्वाभावप्रसङ्गात्, तथा यदुक्तम्, प्रश्नाः / पञ्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतम्, कर्मणोऽनन्तपरमाणुतयाऽनन्तस्कन्धरूपत्वात्, पञ्चाणुकस्य च स्कन्धमात्र भाषेत्यादि त्वात्, तथा कर्मजीवाऽऽवरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसङ्ख्यातप्रदेशात्मकंजीवमावृणुयादिति। तथा यदुक्तं कर्म च शाश्वतम्, तदप्यसमीचीनम्, कर्मणः शाश्वतत्वे क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षस्य क्रियादि चाभावप्रसङ्गात्, दृश्यते च ज्ञानादिहानिवृद्धी, तथा यदुक्तं कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाश्वतत्वे नोपपद्यत इति / यच्चोक्तं, भाषणात्पूर्वं भाषा, तद्धेतुत्वात्तदयुक्तमेव, औपचारिकत्वादुपचारस्य च तत्त्वतोऽवस्तुत्वात्, किंच, उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्त्विकी भाषास्तीति सिद्धम्, यच्चोक्तम्, भाष्यमाणाभाषा, वर्तमानसमयस्याव्यावहारिकत्वात्, तदप्यसम्यग, वर्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वादतीतानागतयोश्च विनष्टानुत्पन्नतयासत्त्वेन व्यवहारानङ्गत्वादिति, // 17 // यच्चोक्तम्, भाषासमयेत्यादि, तदप्यसाधु, भाष्यमाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात्, यश्च प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति हेतुःसोऽनैकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः। अकरणत: प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy