________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 170 // त्यकालस्य पुत्रस्य जिनस्थ त्ति, आत्मा संयमविषये पुष्टो भवत्यात्मरूपो वा संयम उपचितो भवति, उवट्ठिए त्ति, उपस्थितोऽत्यन्तावस्थायी // एएसिणं १शतके भंते! पयाण मित्यस्य,अदिट्ठाण मित्यादिना सम्बन्धः, कथमदृष्टानामित्याह, अन्नाणयाए त्ति, अज्ञानो निनिस्तस्य भावोऽज्ञानता। उद्देशकः 9 सूत्रम् 76 तयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह असवणयाए त्ति, अश्रवणः श्रुतिवर्जितस्तद्भावस्तत्ता तया, श्रीपार्धापअबोहीए त्ति, अबोधिर्जिनधर्मानवाप्तिः, इह तु प्रक्रमान्महावीरजिनधर्मानवाप्तिस्तया, अथवौत्पत्तिक्यादिबुद्ध्यभावेन, वैशिकअणभिगमेण न्ति विस्तरबोधाभावेन हेतुनाऽदृष्टानां साक्षात्स्वयमनुपलब्धानाम श्रुतानामन्यतोऽनाकर्णितानाम्, अस्सुयाण न्ति, श्रीमहावीरअस्मृतानां दर्शनाकर्णनाभावेनाननुध्यातानाम्, अत एव, अविज्ञातानां विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह, अव्वोकडाणं ति, अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, अव्वोच्छिण्णाण न्ति विपक्षादव्यवच्छेदितानाम्, अनिजूढाण विरान् प्रतित्ति महतो ग्रन्थात्सुखावबोधाय सङ्केपनिमित्तमनुग्रहपरगुरुभिरनुद्धतानाम्, अत एवास्माभिरनुपधारिताना मनवधारितानाम्, सामायिकएयमढे त्ति, एवं प्रकारोऽर्थोऽथवाऽयमर्थो नो सद्दहिए त्ति न श्रद्धितः नो पत्तिए त्ति नो नैव पत्तियं ति प्रीतिरुच्यते तद्योगात् पत्तिए दिविषये त्ति प्रीतः प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्ययितो वा हेतुभिः, नो रोइए त्ति न चिकीर्षितः, एवमेयं से जहेयं तुब्भे वयह त्ति, अथ यथैतद्वस्तु यूयं वदथैवमेतद्वस्त्विति भावः / चाउज्जामाउ त्ति चतुर्महाव्रतात्, पार्श्वनाथजिनस्य हि चत्वारिक महाव्रतानि, नापरिगृहीता स्त्री भुज्यत इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, सप्पडिक्कमणं ति पार्श्वनाथधर्मो ह्यप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणादन्यथा त्वकरणात्,महावीरजिनस्य तु सप्रतिक्रमणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, देवाणुप्पिय त्ति प्रियामन्त्रणम्, मा पडिबंधं ति मा व्याघातं कुरुष्वेति गम्यम् / मुंडभावे त्ति मुण्डभावो दीक्षितत्वम्, फलगसेज्ज त्ति प्रतलायतविष्कम्भवत्काष्ठरूपा कट्ठसेज्जत्ति, असंस्कृतकाष्ठशयनं कष्टशय्या वाऽमनोज्ञा वसतिः, लद्धावलद्धी प्रत्याख्याना प्रश्नाः / 8 // 170 //