________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 169 // न्ति समभावरूपम्, न याणंति त्ति न जानन्ति, सूक्ष्मत्वात्तस्य, सामाइयस्स अट्ठ ति प्रयोजनं कर्मानुपादाननिर्जरणरूपम्, १शतके पच्चक्खाण न्ति पौरुष्यादिनियमम्, तदर्थं चाश्रवद्वारनिरोधम्, संजमं ति पृथिव्यादिसंरक्षण लक्षणम्, तदर्थं चानाश्रवत्वम्, उद्देशकः 9 सूत्रम् 76 संवर ति, इन्द्रियनोइन्द्रियनिवर्त्तनम्, तदर्थं त्वनाश्रवत्वमेव, विवेग न्ति विशिष्टबोधम्, तदर्थं च त्याज्यत्यागादिकम्, विउस्सग्ग श्रीपाश्र्वापन्ति व्युत्सर्ग कायादीनाम्, तदर्थं चानभिष्वङ्गताम्, अज्जो! त्ति हे आर्य!, ओकारान्तता सम्बोधने प्राकृतत्वात्, किं भे त्ति किं त्यकालस्य वैशिकभवतामित्यर्थः,आयाणे त्ति, आत्मानः, अस्माकं मतेसामायिकमिति,यदाह जीवो गुणपडिवण्णो नयस्स दव्वट्ठियस्स सामइय पुत्रस्य |न्ति, सामायिकार्थोऽपि जीव एव, कर्मानुपादानादीनांजीवगुणत्वाज्जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति / एवं प्रत्याख्यानाद्य श्रीमहावीर जिनस्थप्यवगन्तव्यम् / जइभे अजो त्ति यदिभवतां हे आर्याः! स्थविराःसामायिकमात्मा तदाऽवहट्टत्ति, अपहृत्य त्यक्त्वा क्रोधादीन् / विरान् प्रतिकिमर्थं गर्हध्वे? निंदामि गरिहामि अप्पाणं वोसिरामी ति वचनात् क्रोधादीनेव, अथवाऽवज मिति गम्यते, अयमभिप्रायः, यः सामायिकसामायिकवान् त्यक्तक्रोधादिश्च स कथं किमपि निन्दति?, निन्दा हि किल द्वेषसम्भवेति, अत्रोत्तरम्, संयमार्थमिति, अवधे। दिविषये गर्हिते संयमो भवति,अवद्यानुमतेर्व्यवच्छेदनात्, तथा गर्दा संयमः,तद्धेतुत्वात्, न केवलमसौगर्दा कर्मानुपादानहेतुत्वात्संयमो भवति, गरहावि त्ति गर्दैव च सर्वम्, दोसं ति दोषं रागादिकं पूर्वकृतं पापंवा द्वेषं वा, प्रविनयति क्षपयति, किं कृत्वा? इत्याहसव्वं बालियन्ति बाल्यं बालतां मिथ्यात्वमविरतिंच, परिण्णाए त्ति परिज्ञाय ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्या-3 ख्यायेति, इह चगर्हायास्तद्वतश्चाभेदादेककर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति,एवं खुत्ति,एवमेव णे, इत्यस्माक माया संजमे उवहिए त्ति, उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयम उपहितः प्राप्तो भवति, आया संजमे उवचिए 0 गुणप्रतिपन्नो जीवो द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् // (विशेषाव० भा० 2643 पूर्वार्धम्) प्रत्याख्याना प्रश्नाः /