________________ 1 शतके उद्देशकः९ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 166 // सूत्रम् 75 अन्ययूथिकानां इहपरभवायु:करणे वि प्रतिपत्ति प्रश्नाः / आउयं पकरेति, तं०- इहभवि० वा परभवि० वा, सेवं भंते!२! त्ति भगवंगोयमे जाव विहरति / / सूत्रम् 75 / / अण्णउत्थिए इत्यादि, अन्ययूथं विवक्षितसङ्गादपरः सङ्गस्तदस्ति येषां तेऽन्ययूथिकाः, तीर्थान्तरीया इत्यर्थः, एवमिति वक्ष्यमाणमाइक्खंति त्ति, आख्यान्ति सामान्यतः, भासंति त्ति विशेषतः, पण्णवेंति त्ति, उपपत्तिभिः, परूवेंति ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेनायुद्वैयकरणे नास्ति विरोध इत्युक्त मेगे जीव इत्यादि, दो आउयाई पकरेइ त्ति जीवो हि स्वपर्यायसमूहात्मकः,सच यदैकमायुः पर्यायं करोति तदाऽन्यमपि करोति, स्वपर्यायत्वात्, ज्ञानसम्यक्त्वपर्यायवत्, स्वपर्यायकर्तृत्वंचजीवास्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पादप्रसङ्ग इति भावः, उक्तार्थस्यैव भावनार्थमाह जमित्यादि, विभक्तिविपरिणामाद्यस्मिन्समय इहभवो वर्तमानभवो यत्राऽऽयुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुः करणसमये परभवायुः करणं नियमितम्, अथ परभवायुःकरणसमय इहभवायुःकरणं नियमयन्नाह जं समयं परभवियाउय मित्यादि, एवमेकसमयकार्यतां द्वयोरप्यभिधायैकक्रियाकार्यतामाह, इहभवियाउयस्से त्यादि, पकरणयाए। त्ति करणेन, एवं खल्वित्यादि निगमनम्।जण्णं ते अण्णउत्थिया एवमाइक्खंती त्याद्यनुवादवाक्यस्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो दृश्यः, जे ते एवमाहंसु मिच्छंते एवमाहंसु त्ति तत्र, आहंसु त्ति, उक्तवन्तः, यच्चायं वर्तमाननिर्देशेऽधिकृतेऽतीतनिर्देशः ससर्वो वर्तमानः (नका)कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिथ्यात्वं चास्यैवम्, एकेनाध्यवसायेन विरुद्धयोरायुषोबंन्धायोगात्, यच्चोच्यते, पर्यायान्तरकरणे पर्यायान्तरं करोति, स्वपर्यायत्वादिति, तदनैकान्तिकम्, सिद्धत्वकरणे संसारित्वाकरणादिति। टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति वेदयत इत्यर्थः परभवायुस्तदा प्रकरोति बध्नातीत्यर्थः, इह©अत्र टीकागतोऽयं पाठः- अण्ण्उत्थिया नं इहभवियाउयं' इत्यादि / इह भवाऽयुर्यदा वेदयति तदा जीव: परभवे आयुर्बध्नाति 2 // 166 //