SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 158 // १शतके उद्देशक:८ सूत्रम् 65-69 मृगवधादौ क्रिया प्रश्राः / प्रत्यशंसन्धितं कृतसन्धानं भवति?, तथा निर्वृत्त्यमानं नितरांव लीक्रियमाणं प्रत्यञ्चाकर्षणेन निवृत्तितं वृत्तीकृतं मण्डलाकारं कृतं भवति?, तथा निसृज्यमानं निक्षिप्यमाणं काण्डं निसृष्टं भवति?, यदाच निसृष्टं तदा निसृज्यमानताया धनुर्द्धरण कृतत्वात्तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव मारितः, ततश्चोच्यते जे मियं मारेईत्यादीति 3 // इह च क्रियाः प्रक्रान्ताः, ताश्चानन्तरोक्ते मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह, अन्तो छह मित्यादि, षण्मासान् यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमितिकृत्वा षण्मासादूर्ध्वं प्राणातिपातक्रिया न स्यादिति हृदयम्, एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्, अन्यथा यदा कदाप्यधिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रियेति 4 // 68 // सत्तीए त्ति शक्त्या प्रहरणविशेषेण समभिधंसेज्जत्ति हन्यात्, सयपाणिण त्ति स्वकहस्तेन, से त्ति तस्य, काइयाए त्ति कायिक्या शरीरस्पन्दरूपया, आधिकरणिक्या शक्तिखड्गव्यापाररूपया, प्राद्वेषिक्या मनोदुष्प्रणिधानेन, पारितापनिक्या परितापनरूपया, प्राणातिपातक्रियया मारणरूपया, आसन्ने त्यादि, शक्त्याभिध्वंसकोऽसिना वा शिरश्छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः, मारितपुरुषवैरभावेन किम्भूतेनेत्याह, आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्नवधकेन, भवति च वैराद्वधो वधकस्य तमेव वध्यमाश्रित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा, यदाह वहमारणअब्भक्खाणदाणपरधणविलोवणाईणं। सव्वजहन्नो उदओ दसगुणिओ एक्कसिकयाणं॥१॥ति, चःसमुच्चयेऽनवकाङ्कक्षणा परप्राणनिरपेक्षा स्वगतापायपरिहारनिरपेक्षा वा वृत्तिर्वर्त्तनं यत्रैव वैरे तत्तथा तेनानवकाङ्क्षणवृत्तिकेनेति 5 // 69 // क्रियाऽधिकार एवेदमाह वधमारणाभ्याख्यानदानपरधनविलोपनादीनामेकशः कृतानामपि सर्वजघन्य उदयो दशगुणितः॥ 1 // 28 // 158 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy