________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 148 // गन्भं वक्कममाणे त्ति, गर्भं व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः, दव्विंदियाइ न्ति निर्वृत्त्युपकरणलक्षणानि, तानि हीन्द्रिय- १शतके पर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, भाविंदियाइंति लब्ध्युपयोगलक्षणानि, तानिच संसारिणः सर्वावस्थाभावीनीति। उद्देशक:७ सूत्रम् 61 ससरीरि त्ति सह शरीरेणेति सशरीरी, इन्, समासान्तभावात्, असरीरि त्ति शरीरवाच्छशरीरी, तनिषेधादशरीरी वक्कमइ त्ति गर्भशास्त्रम्। व्युत्क्रामति, उत्पद्यत इत्यर्थः, तप्पढमयाए त्ति तस्य, गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया, कि मिति प्राकृतत्वात् / गर्भस्येन्द्रिय यवत्त्वाहारादि कथम्?, माउओयं ति मातुरोजः जनन्या आर्त्तवम्, शोणितमित्यर्थः, पिउसुक्कं ति पितुः शुक्रम्, इह यदिति शेषः, तं ति, प्रश्नाः / आहारमिति योगः, तदुभयसंसिटुंति तयोरुभयं तदुभयं द्वयम्, तच्च तत् संश्लिष्टं च संसृष्टं वासंसर्गवत्तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा, जं से त्ति या तस्य गर्भसत्त्वस्य माता, रसविगईओ त्ति रसरूपा विकृती:, दुग्धाद्या रसविकारास्ताः, तदेगदेसेणं ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह, ओज आहारयतीति / उच्चारेइ व त्ति, उच्चारो विष्ठा, इत्युपप्रदर्शने वा विकल्पे, खेलो निष्ठीवनम्, सिंघाणं ति नासिकाश्लेष्मा केसमंसुरोमनहत्ताए त्ति, इह श्मश्रूणि कूर्चकेशाः, रोमाणि कक्षादिकेशाः / जीवे ण मित्यादि, सव्वओ त्ति सर्वात्मना, अभिक्खणं ति पुनः पुनः, आहच्च त्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वत आहारयतीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहर्तुमिति भावः, अथ कथं सर्वत आहारयति? इत्याह माउजीवरसहरणी त्यादि, रसो ह्रियत आदीयते यया सा रसहरणी नाभिनालमित्यर्थः, मातृजीवस्य। रसहरणी मातृजीवरसहरणी, किमित्याह पुत्तजीवरसहरणी पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह, मातृजीवप्रतिबद्धा॥१४८॥ सती सा यतः पुत्तजीवं फुड त्ति पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात्, स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात्, अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वेनाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टेति,