________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 146 // महिड्डिए त्ति महर्द्धिको विमानपरिवाराद्यपेक्षया, महज्जुइए त्ति महाद्युतिकः शरीराभरणाद्यपेक्षया, महब्बले त्ति महाबलः 1 शतके शारीरप्राणापेक्षया, महायसे त्तिमहायशाः बृहत्प्रख्यातिः, महेसक्खेत्ति महेशो महेश्वर इत्याख्या, अभिधानं यस्यासौ महेशाख्यः उद्देशक:७ सूत्रम् 60 महासोक्खेत्ति क्वचिन्महाणुभावे त्ति महानुभावः विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः, अविउक्कंतियं चयमाणे त्ति च्यवमानता देवस्य किलोत्पत्तिसमयेऽप्युच्यत इत्यत आह, व्युत्क्रान्तिरुत्पत्तिः, तन्निषेधादव्युत्क्रान्तिकम्, अथवा व्यवक्रान्तिमरणम्, तनिषेधाद च्यवनकाले हीकुत्सादेराव्यवक्रान्तिकं तद्यथा भवत्येवं च्यवमानोजीवमानः,जीवन्नेव मरणकाल इत्यर्थः, अविउक्कंतियं चयं चयमाणे त्ति क्वचिदृश्यते हाराभाव तत्र च चयं शरीरम्, चयमाणे त्ति त्यजन्, किश्चिवि कालं ति कियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः? इत्याह प्रश्नाः / सूत्रम् 61 ह्रीप्रत्ययं लज्जानिमित्तम्, स हिच्यवनसमयेऽनुपक्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसदृशंपुरुषपरिभुज्य- गर्भशास्त्रम्। मानस्त्रीगर्भाशयरूपं जिह्वेति हिया च नाहारयति तथा जुगुप्साप्रत्ययं कुत्सानिमित्तम्, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात्, गर्भस्येन्द्रिय यवत्त्वाहारादि परीसहवत्तियं ति, इह प्रक्रमात् परीषहशब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीषहनिमित्तम्, दृश्यते चारतिप्रत्ययाल्लोके- प्रश्नाः / ऽप्याहारग्रहणवैमुख्यमिति, आहारं मनसा तथाविधपुद्गलोपादानरूपम्, अहे णं ति, अथ लज्जादिक्षणानन्तरमाहारयति / बुभुक्षावेदनीयस्य चिरं सोढुमशक्यत्वादिति, आहारिज्जमाणे आहारिए इत्यादी भावार्थः प्रथमसूत्रवत्, अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीयाऽऽहारकालस्याल्पतोक्ता, तदनन्तरं च पहीणे य आउए भवइ त्ति चः समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादौ, तमाउयं ति तस्य मनुजत्वादेरायुस्तदायुः, प्रतिसंवेदयत्यनुभवतीति, तिरिक्खजोणियाउयं वेत्यादौ देवनारकायुषोः प्रतिषेधः, देवस्य तत्रानुत्पादादिति // 60 // उत्पत्त्यधिकारादिदमाह जीवे णं भंते गन्भं वक्कममाणे किं सइंदिए वक्कमइ अणिदिए वक्कमइ?, गोयमा! सिय सइंदिए व० सिय अणिदिए व०, से // 146 //