________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 145 // 1 शतके विग्गहगइसमावन्नए त्ति विग्रहो वक्रं तत्प्रधाना गतिर्विग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, उद्देशक: अविग्रहगतिसमापन्नस्त्वृजुगतिकः स्थितोवा, विग्रहगतिनिषेधमात्राश्रयणात्, यदिचाविग्रहगतिसमापन्न ऋजुगतिक एवोच्यते / सूत्रम् 60 देवस्य तदा नारकादिपदेषु सर्वदैवाविग्रहगतिकानां यद्बहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि तेषूत्पादश्रवणात्, टीकाकारेण तु च्यवनकाले केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति / जीवा णं भंत! इत्यादि प्रश्नः, तत्र जीवानामानन्त्यात् / हीकुत्सादेरा हाराभाव प्रतिसमयं विग्रहगतिमतांतन्निषेधवतांच बहूनां भावादाह विग्गहगई त्यादि। नारकाणांत्वल्पत्वेन विग्रहगतिमतां कदाचिद- प्रश्नाः / सम्भवात् सम्भवेऽपि चैकादीनामपि तेषां भावाद्विग्रहगतिप्रतिषेधवतांच सदैव बहूनां भावादाह सव्वेवि ताव होज्ज अविग्गहे. त्यादि विकल्पत्रयम्, असुरादिष्वेतदेवातिदेशत आह, एव मित्यादि, जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्त्या / विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयम्, तदन्येषु तु त्रयमेवेति, तियभंगो त्ति त्रिकरूपो भङ्गस्त्रिकभङ्गो भङ्गत्रयमित्यर्थः // 59 // गत्यधिकाराच्च्यवनसूत्रम् देवे णं भंते! महिहिए महजुईए महब्बले महायसे महासुक्खे महाणुभावे अविउक्कंतियं चयमाणे किंचिवि कालं हिरिवत्तियं दुगुंछावत्तियं परिसहवत्तियं आहारंनो आहारेइ, अहेणं आहारेइ, आहारिजमाणे आहारिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवइ जत्थ उववज्जइ तमाउयं पडिसंवेएइ, तंजहा-तिरिक्खजोणियाउयं वा मणुस्साउयंवा?, हंता गोयमा! देवेणं महिहीए 8 // 145 // जाव मणुस्साउयं वा / / सूत्रम् 60 // Oअत्र टीकागतोऽयं पाठः- अविग्रह ऋजु- अकुटिलम् ।(श्रीभगवती अवचूर्णिः)