________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 142 // सूत्रम् 57 // १शतके नेरइए णं भंते! नेरइएसु उववज्जमाणे त्ति, ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यते?, अनुत्पन्नत्वात्, तिर्यगादिवदिति, उद्देशकः७ सूत्रम् 57 अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोदयेऽपि यदि नारको नासो नारकस्य तदन्यः कोऽसौ? इति, किं देसेणं देसं उववज्जइ त्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं तद्देशेनदेशम्, छान्दसत्वाच्चाव्ययीभाव-2 देशेन देशादितयोप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्र जीवः किं देशेन स्वकीयावयवेन, देशेन नारकावयविनोऽशतयोत्पद्यतेऽथवा देशेन / त्पत्तिप्रश्नाः। देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि / तथा देसेणं सव्वं ति देशेन च सर्वेण च यत् प्रवृत्तं तद्देशेनसर्वम्, तत्र देशेन / स्वावयवेन, सर्वतः सर्वात्मना, नारकावयवितयोत्पद्यत इत्यर्थः, आहोश्चित्सर्वेण सर्वात्मना, देशतो नारकांशतयोत्पद्यते, अथवा सर्वेण सर्वात्मना सर्वतो नारकतयेति प्रश्नः 4, अत्रोत्तरम्, न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन / कार्यावयवो निवर्त्यते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशो न निर्वय॑ते / तथा पूर्वावयविप्रतिबद्धेन तद्देशेनोत्तरावयविदेशो न निवर्त्यत इति भावः / तथा न देशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पट इवेति / तथा नसर्वेणदेशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात्, समस्तघटकारणैर्घटैकदेशवत् / सव्वेणं सव्वं उववज्जइ सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह, किमवस्थित एतद्विषये चूर्णिगतः पाठोऽयं- कारणवयवेन कार्यावयवी न निवर्त्यते तन्तुना पटानवबद्धप्रदेशे (ता?) पटो न बद्धप्रदेशे च(व) ता(?) न च देशेन सर्वः, असकलकारणत्वात्, तन्तुना पट इव, न च सर्वावयवैर्देशकार्यनिवृत्तिः संपूर्णसमवायसमवायिकारणत्वात् घटैकदेशदेशवत् सर्वाययवेः सर्वः पूर्णकारणसमवायात् पटवत् ।(श्रीभगवती चूर्णि)। 0 एतद्विषये टीका (अवचूर्णि)गतः पाठोऽयं- किमत्रावस्थित एव जीव एकं देशमपनीय तत्र देशेनोत्पद्यते यत्र उत्पत्तव्यम्, अथवा // 143