________________ १शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 140 // न्योऽन्य प्रश्नाः / बद्धा इत्याह, अन्नमन्नपुट्ठा पूर्वं स्पर्शनामात्रेणान्योऽन्यं स्पृष्टास्ततोऽन्योऽन्यं बद्धाः, गाढतरं संबद्धा इत्यर्थः, अण्णमण्णमोगाढ त्ति परस्परेण लोलीभावं गताः, अन्योऽन्यं स्नेहप्रतिबद्धा इति, अत्र रागादिरूपः स्नेहः, यदाह स्नेहाभ्यक्तशरीरस्य रेणुना उद्देशक:६ सूत्रम् 55 श्लिष्यते यथा गात्रम् / रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥१॥ति, अत एव, अण्णमण्णघडत्ताए त्ति, अन्योऽन्यं घटा, समुदायो जीवयेषां तेऽन्योऽन्यघटास्तद्भावस्तत्ता तयाऽन्योऽन्यघटतया। हरए सिय त्ति ह्रदो नदः स्याद्भवेत्, पुण्णे त्ति भृतो जलस्य, स च / पुदलानामकिञ्चिन्न्यूनोऽपि व्यवहारतः स्यादत आह पुण्णप्पमाणे त्ति पूर्णप्रमाणः पूर्णं वा जलेनात्मनो मानं यस्य स पूर्णात्ममानः, बद्धत्वादि वोलट्टमाणे त्ति व्यपलोड्यन्, अतिजलभरणाच्छद्यमानजल इत्यर्थः, वोसट्टमाणे त्ति जलप्राचुर्यादेव विकशन्स्फारीभवन्वर्द्धमान इत्यर्थः, समभरघडत्ताएत्ति समोन विषमो घटैकदेशमनाश्रितत्वेन भरोजलसमुदायो यत्र स समभरः सर्वथा भृतोवा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभरश्चासौ घटश्चेति समासः, समभरघट इव समभरघटस्तद्भावस्तत्ता तया समभरघटतया, सर्वथाभृतघटाकारतयेत्यर्थः, अहे णं ति, अहेशब्दोऽथार्थः, अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालङ्कारे, महं ति महतीं सयासवंति, आश्रवति, ईषत्क्षरति जलं यैस्त आश्रवाः, सूक्ष्मरन्ध्राणि, सन्तो विद्यमानाः सदा वासर्वदा शतसङ्ख्या वाऽऽश्रवा यस्यां सा सदाऽऽश्रवाः शताऽऽश्रवा वाऽतस्ताम्, एवं सयछिड्नवरं छिद्रं महत्तरं रन्ध्रम्, ओगाहेजत्ति, अवगाहयेत् प्रवेशये दासवदारेहिं ति, आश्रवच्छिद्रैः, आपूरमाणी त्ति, आपूर्यमाणा जलेनेति शेषः, इह द्विवचनमाभीक्ष्ण्ये, पुण्णे त्यादि प्राग्वन्नवरं वोसट्टमाणे त्यादौ वृद्धैरयं विशेष उक्तः, वोसट्टमाणा भृता सती या तत्रैव निमज्जति सोच्यते समभरघडताए त्ति ह्रदक्षिप्तसमभरघटवद् हृदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च ह्रदोदकं चान्योऽन्यावगाहेन वर्त्तत एवं जीवाश्च पुद्गलाश्चेति भावना // 55 लोकस्थितावेवेदमाह