________________ श्रीअभय वृत्तियुतम् भाग-१ // 139 // १शतके उद्देशक: 6 सूत्रम् 55 जीवपुद्रलानाम न्योऽन्यः प्रश्ना : / नामेति संभावनायाम्, ए, इति वाक्यालङ्कारे, वत्थिं ति बस्तिं दृतिम्, आडोवेइ त्ति, आटोपयेद्वायुना पूरयेत्, उप्पिं सियं बंधइ त्ति, उपरि सितं षिञ्बन्धन इति वचनात् क्तप्रत्ययस्य च भावार्थत्वात् कर्मार्थत्वाद्वा बन्धं ग्रन्थिमित्यर्थः, बध्नाति करोतीत्यर्थः, अथवो प्पिंसि त्ति, उपरि, त मिति बस्तिम्, से आउयाए त्ति, सोऽप्कायस्तस्य वायुकायस्यो प्पिं ति, उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह, उपरितले सर्वोपरीत्यर्थः, यथा वायुराधारोजलस्य दृष्ट एवमाधाराधेयभावो भवत्याकाशघनवातादीनामिति भावः, आधाराधेयभावश्च प्रागेव सर्वपदेषु व्यजित इति / अत्थाहमतारमपोरुसियंसि त्ति, अस्ताघम्, अविद्य- बद्धत्वादि मानस्ताघमगाधमित्यर्थः, अस्ताधोवा निरस्ताधस्तलमिवेत्यर्थः, अत एवातारंतरीतुमशक्यम्, पाठान्तरेणापारंपारवर्जितम्, पुरुषःप्रमाणमस्येति पौरुषेयं तत्प्रतिषेधादपौरुषेयं ततः कर्मधारयोऽतस्तत्र,मकारश्चेहालाक्षणिकः, एवं वे त्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः॥५४॥ लोकस्थित्यधिकारादेवेदमाह, अत्थि ण मित्यादि, अन्ये त्वाहुः, अजीवा जीवपइट्ठिया / इत्यादेः पदचतुष्टयस्य भावनार्थमिदमाह___ अत्थिणंभंते! जीवा य पोग्गलाय अन्नमन्नबद्धा अन्नमन्नपुट्ठा अन्नमन्नमोगाढा अन्नमनसिणेहपडिबद्धा अन्नमन्नघडताए चिटुंति?, हंता! अत्थि / से केणटेणं भंते! जाव चिटुंति?, गोयमा! से जहानामए- हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडताए चिट्ठइ, अहे णं केइ पुरिसे तंसि हरदंसि एणं महं नावं सयासवं सयछिडं ओगाहेजा, से नूणं गोयमा! सा णावा तेहिं आसवदारेहिं आपूरमाणी 2 पुण्णा पुण्णप्पमाणा वोलट्टमाणावोसट्टमाणा समभरघडताए चिट्ठइ?, हंता चिट्ठइ, से तेणटेणंगोयमा! अत्थिणंजीवा यजाव चिट्ठति ॥सूत्रम् 55 // पोग्गले ति कर्मशरीरादिपुद्गलाः, अण्णमण्णबद्ध त्ति, अन्योऽन्यं जीवाः पुद्गलानां पुद्गलाश्च जीवानां संबद्धा इत्यर्थः, कथं ] // 139 //