________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 138 // प्रदेशा अनन्ताः, पर्यवा अनन्ता एव, अद्ध त्ति, अतीताद्धाऽनागताद्धा सर्वाद्धाचेति, किं पुव्विंलोयंति त्ति, अयंसूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्राभिलापं दर्शयन्नाह पुब्विं भंते! लोयंते पच्छा सव्वद्धे त्ति / एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विचित्रबाह्याध्यात्मिकवस्तुसत्ताभिधानार्थानीश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति // 53 // लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह, अयं सूत्राभिलापः,आकाशप्रतिष्ठितो वायुः तनुवातघनवातरूपः, तस्यावकाशान्तरोपरि स्थितत्वात्, आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति / तथा वातप्रतिष्ठित उदधिः, घनोदधिस्तनुवातघनवातोपरि स्थितत्वात् 2 / तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वाद्रत्नप्रभादीनाम्, बाहुल्यापेक्षया चेदमुक्तम्, अन्यथेषत्प्राग्भारा पृथिवी, आकाशप्रतिष्ठितैव / तथा पृथिवीप्रतिष्ठितास्त्रसस्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तीति 4 / तथाऽजीवाः, शरीरादिपुद्गलरूपाजीवप्रतिष्ठिताः,जीवेषु तेषां स्थितत्वात् 5 / तथा जीवाः कर्मप्रतिष्ठिताः, कर्मसु, अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु संसारिजीवानामाश्रितत्वात्, अन्ये त्वाहुः, जीवाः कर्मभिः प्रतिष्ठिताः, नारकादिभावेनावस्थिताः६। तथाऽजीवा जीवसंगृहीताः, मनोभाषादिपुद्गलानांजीवैः संगृहीतत्वात्, अथाजीवाः जीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः?, उच्यते, पूर्वस्मिन्वाक्य आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत्तस्याधेयमप्यर्थापत्तितः स्याद्, यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति / तथा जीवाः कर्मसंगृहीताः, संसारिजीवानामुदयप्राप्तकर्मवशवर्त्तित्वात्, ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधेयता दृश्येति / से जहानामए केइ त्ति, स यथानामको यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, अथवा से, इति स यथेति दृष्टान्तार्थः १शतके उद्देशक:६ सूत्रम् 53 लोकालोकादिकुक्कुटीअण्डकादि भावानां शाश्वतत्वादिप्रश्नाः। सूत्रम् 54 तनुवातघनवातादि अष्टधा लोक. |स्थिति प्रश्नाः।