________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 133 // प्रश्राः / त्यादिसूत्रप्रपञ्चो दृश्यः, अत एवोक्तं जाव नियमा छद्दिसिं ति, एतद्भावना चैवं स्पृष्टमलोकान्तं लोकान्तः स्पृशति, स्पृष्टत्वं च / 1 शतके व्यवहारतो दूरस्थस्यापि दृष्टं यथा चक्षुःस्पर्श इत्यत उच्यते, अवगाढमासन्नमित्यर्थः, अवगाढत्वं चासत्तिमात्रमपि स्यादत उद्देशकः६ सूत्रम् 51 उच्यते, अनन्तरावगाढमव्यवधानेन संबद्धम्, न तु परम्परावगाढं शृङ्खलाकटिकेव परम्परासम्बद्धम्, तं चाणुं स्पृशति, लोकान्त स्यालोकान्त अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात्, बादरमपि स्पृशति, क्वचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात्, स्पर्शादि तमूर्ध्वमधस्तिर्यक् च स्पृशति, ऊर्द्धादिदिक्षु लोकान्तस्यालोकान्तस्य च भावात्, तं चादौ मध्येऽन्ते च स्पृशति, कथम्?, अधस्तिर्यगूर्द्धलोकप्रान्तानामादिमध्यान्तकल्पनात्, तं च स्वविषये स्पृशति, स्पृष्टावगाढादौ, नाविषयेऽस्पृष्टादाविति, तं चानुपूर्व्या स्पृशति, आनुपूर्वी चेह प्रथम स्थाने लोकान्तस्ततोऽनन्तरं द्वितीय स्थानेऽलोकान्त इत्येवमवस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात्, तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात्, इह च विदिक्षु स्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वाद्विदिशां च तत्परिहारेण भावादिति / एवं द्वीपान्तसागरान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे छइिंसिमित्यस्यैवं भावना, योजनसहस्रावगाढा द्वीपाश्च समुद्राच भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्योर्ध्वाधोदिग्द्वयस्य स्पर्शना वाच्या, पूर्वादिदिशां तु प्रतीतैव, समन्ततस्तेषामवस्थानात् / उदयंते पोयतं ति नद्याधुदकान्तः, पोतान्तं नौपर्यवसानम्, इहाप्युच्छ्यापेक्षयो दिक्स्पर्शनावाच्या जलनिमजेन वेति / छिदंते दूसंत न्ति छिद्रान्तः, दूष्यान्तं वस्त्रान्तं स्पृशति, इहापि षड्दिक्स्पर्शनाभावना वस्त्रोच्छ्यापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् षड्दिस्पर्शना भावयितव्या। छायंते आयवंतं ति, इह छायाभेदेन षड्दिग्भावनैवम्, आतपे व्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त // 133 //