________________ श्रीअभय वृत्तियुतम् भाग-१ // 129 // सत्तावीसे त्यादि, सप्तविंशतिर्भङ्गकस्थानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिक जघन्यस्थितिप्रभृतीनि, तेषु / १शतके च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभङ्गकम्, यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति तेन उद्देशक:५ सूत्रम् 49 तेषांसप्तविंशतिर्भङ्गका उक्तस्थानेषु युज्यन्ते, मनुष्याणां तु प्रत्येकं क्रोधाधुपयोगवतांबहूनां भावान्न कषायोदये विशेषोऽस्ति, द्वींद्रियादितेन तेषां तेषु स्थानेषु भङ्गकाभाव इति / इहैव विशेषाभिधानायाह नवरमि त्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु वैमानिकान्त दण्डकानां मनुष्याणामप्यशीतिः तथा जेसु सत्तावीसा तेसु अभंगय मित्युक्तम्, केवलं मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थितौ तेषाम- स्थित्यादिशीतितुनारकाणांतत्र सप्तविंशतिरुक्तेत्यभङ्गकम् / तथाऽऽहारकशरीरेऽशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां दशस्थानेषु क्रोधाधुतन्नास्त्येवेत्ये तदप्यभ्यधिकं मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुर्षु ज्ञानद्वार एव च पयुक्तानां विविधभड़ विशेषः, तथाहि, असंखेजेसु णं भंते! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता?, गोयमा! पंच, तंजहा- ओरालिए वेउविए प्रश्नाः / आहारए तेयए कम्मए, असंखेजेसु णं जाव ओरालियसरीरे वट्टमाणा मणुस्सा कि कोहोवउत्ता 4?, गोयमा! कोहोवउत्तावि 4, एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिर्भङ्गकानां वाच्या। एवं संहननद्वारेऽपि नवरं मणुस्साणं भंते! कइ संघयणा पण्णत्ता?, गोयमा! छस्संघयणा पण्णत्ता, तंजहा- वइरोसहनाराए जाव छेवढे। संस्थानद्वारे छ संठाणा पण्णत्ता, तंजहा-समचउरंसे जाव हुंडे। लेश्याद्वारे छलेसाओ, तंजहा- किण्हलेस्सा जाव सुक्कलेसा / ज्ञानद्वारे मणुस्साणं भंते! कइणाणाणि? गोयमा! पंच, तंजहा- आभिणिबोहियणाणं जाव केवलणाणं / एतेषु च केवलवर्जेष्वभङ्गकम्, केवले तु कषायोदय एव नास्तीति ॥वाणमंतरे त्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः, यत्रासुरादीनामशीतिर्भङ्गकाः यत्र च सप्तविंशतिस्तत्र च व्यन्तरादीनामपि ते / तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनांतु