________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 127 // बेइंदियतेइंदियचउरिंदियाणं जेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीइंचेव, नवरं अब्भहिया सम्मत्ते आभिणिबोहियनाणे सुयनाणेय, एएहिं असीइभंगा, जेहिं ठाणेहिं नेरतियाणं सत्तावीसं भंगा तेसुठाणेसुसव्वेसु अभंगयं ॥पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्वा, नवरं जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीतिं चेव॥ मणुस्साणविजेहिं ठाणेहिं नेरइयाणं असीतिभंगा तेहिं ठाणेहिं मणुस्साण वि असीतिभंगा भाणियव्वा, जेसु ठाणेसुसत्तावीसा तेसु अभंगयं, नवरंमणुस्साणं अब्भहियं जहन्निया ठिई आहारए य असीति भंगा।वाणमंतरजोइसवेमाणिया जहा भवणवासी, नवरं णाणत्तं जाणियव्वं जंजस्स, जाव अणुत्तरा, सेवं भंते! सेवं भंते! त्ति // सूत्रम् ४९॥पंचमो उद्देसो सम्मत्तो॥१-५॥ बेइंदिए इत्यादावेवमक्षरघटना जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचउरिंदियाणं असीई चेव त्ति, तत्रैकादिसङ्ख्यातान्तसमयाधिकायां जघन्यस्थितौ 1 तथा जघन्यायामवगाहनायां च 2 तत्रैव च सङ्खयेयान्तप्रदेशवृद्धायां 3 मिश्रदृष्टौ च नारकाणामशीतिर्भङ्गका उक्ताः, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्रदृष्टिवर्जेष्वशीतिरेव, अल्पत्वातेषामेकैकस्यापि क्रोधाधुपयुक्तस्य सम्भवात्, मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च न संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्धैस्त्विह सूत्रे कुतोऽपिवाचनाविशेषाद्यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति / इहैव विशेषाभिधानायाह, नवरमित्यादि, अयमर्थः, दृष्टिद्वारे ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणां त्वब्भहिय त्ति, अभ्यधिकान्यशीतिर्भङ्गकानां भवति, क्व? इत्याह, सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणांसास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिर्भङ्गकानां भवति, एवमाभिनिबोधिके श्रुते चेति / तथा जेही त्यादि येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वित्रि चतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीति १शतके उद्देशक:५ सूत्रम् 49 द्वींद्रियादिवैमानिकान्तदण्डकानां स्थित्यादिदशस्थानेषु क्रोधाधुपयुक्तानां विविधभङ्ग प्रश्नाः / // 127 //