________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 126 // विविधभा प्रश्नाः / पन्नताओ?, गोयमा! चत्तारि, तंजहा- कण्हलेसा जाव तेउलेसा, एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भङ्गकाः, 1 शतके एतच्च प्रागेवोक्तमिति / दृष्टिद्वार इदं वाच्यम्, असंखेज्जेसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, उद्देशकः 5 सूत्रम् 48 गोयमा! मिच्छादिट्ठी, शेषं तथैव / ज्ञानद्वारे तथैव, नवरं पुढविकाइया णं भंते! किं णाणी अन्नाणी?, गोयमा! णो णाणी अन्नाणी पृथिवी कायिकानां नियमा दो अन्नाणी। योगद्वारेऽपि तथैव, नवरं पुढविक्काइया णं भंते! किं मणजोगी वइजोगी कायजोगी?, गोयमा! नो मणजोगी नो स्थित्यादिवयजोगी कायजोगी॥ एवं आउक्काइयावित्ति पृथिवीकायिकवदप्कायिका अपिवाच्याः, ते हि दशस्वपि स्थानकेष्वभङ्गकाः, दशस्थानेषु क्रोधाधुतेजोलेश्यायां चाशीतिभङ्गकवन्तो यतस्तेष्वपि देव उत्पद्यत इति / तेउक्काइए इत्यादौ सव्वेसु ठाणेसु त्ति स्थितिस्थानादिषु पयुक्तानां दशस्वप्यभङ्गकम्, क्रोधाधुपयुक्तानामेकदैव तेषुबहूनां भावात्, इह देवानोत्पद्यन्त इति तेजोलेश्या तेषु नास्ति, ततस्तत्सम्भवनान्नाशी(...म्भवाः नाशी...)तिरपीत्यभङ्गकमेवेति, एतेषु च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषुशरीरद्वार एवमध्येयमसंखेज्जेसु णं भंते! जाव वाउक्काइयाणं कइ सरीरा पन्नत्ता?, गोयमा! चत्तारि, तंजहा- ओरालिए वेउव्विए तेयए कम्मए त्ति॥वणस्सइकाइए त्यादि, वनस्पतयः पृथिवीकायिकसमाना वक्तव्याः, दशस्वपिस्थानकेषु भङ्गकाभावात्, तेजोलेश्यायां च तथैवाशीतिभङ्गकसद्भावादिति / ननु पृथिव्यम्बुवनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानंच, अल्पाश्चैत इत्येवमशीतिर्भङ्गाः सम्यग्दर्शनाभिनिबोधिकश्रुतज्ञानेषु भवन्तु, नैवम्, पृथिव्यादिषु सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात्, तत एवोच्यत उभयाभावो पुढवाइएसु विगलेसु होज्ज उववण्णो।। त्ति, उभयं प्रतिपद्यमानपूर्वप्रतिपन्नरूपमिति // 48 // 0पूर्वप्रतिपन्नप्रतिपद्यमानोभयाभावः पृथिव्यादिषु विकलेखूपपन्नो भवेत् / / // 126