________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 121 // जघन्यावगाहनानामल्पत्वादिति, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहनत्वमतिक्रान्तानामिति भावनीयम् // शरीरद्वारे सत्तावीसं भंग त्ति, अनेन यद्यपि वैक्रियशरीरे सप्तविंशतिर्भङ्गका उक्तास्तथापि या स्थित्याश्रयाऽवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रयायाश्च, सावकाशत्वात्, एवमन्यत्रापि विमर्शनीयमिति / एएणं गमेणं तिन्नि सरीरया भाणियव्व त्ति, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैजसकार्मणानि भणितव्यानि, त्रिष्वपि भङ्गकाः सप्तविंशतिर्वाच्येत्यर्थः, ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातांतयोरल्पत्वेनाशीतिरपि भङ्गकानांसंभवतीति कथमुच्यते? तयोः सप्तविंशतिरेवेति, अत्रोच्यते,सत्यमेतत्, केवलं वैक्रियशरीरानुगतयोस्तयोरिहाश्रयणं केवलयोश्चानाश्रयणमिति सप्तविंशतिरेवेति, यच्च द्वयोरेवातिदेश्यत्वे त्रीणीत्युक्तं तच्च त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति // संहननद्वारे छण्हं संघयणाणं असंघयणि त्ति, षण्णांसंहननानां वज्रर्षभनाराचादीनांमध्यादेकतरेणापि संहननेनासंहननानीति, कस्मादेवमित्यत आह नेवठ्ठी त्यादि, नैवास्थ्यादीनि तेषां सन्ति, अस्थिसञ्चयरूपं च संहननमुच्यत इति, अनिट्ठत्ति, इष्यन्ते स्मेतीष्टास्तनिषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत उच्यते, अकान्ताः, अकान्तमपि किञ्चित्कारणवशात् प्रीतये भवतीत्याह-(ग्रन्थाग्रम् 2000) अप्पियाऽप्रीतिहेतवः, अप्रियत्वं तेषां कुतः?, यतोऽसुभ त्ति, अशुभस्वभावाः, ते च सामान्या अपि भवन्तीत्यतो विशेष्यतेऽमणुण्ण त्ति न मनसाः (सा?) अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः, अमनोज्ञता चैकदापि स्यादत आह, अमणाम त्ति न मनसाऽम्यन्ते गम्यन्ते पुनः पुनः स्मरणतो ये तेऽमनोऽमाः, एकार्थिका वैते शब्दा अनिष्टताप्रकर्षप्रतिपादनार्था इति / एतेसिं सरीरसंघायत्ताए त्ति सङ्घाततया, शरीररूपसञ्चयतयेत्यर्थः॥ संस्थानद्वारे किंसंठिय त्ति किं संस्थितं संस्थानं येषां तानि किंसंस्थितानि, भवधारणिज्ज त्ति, भवधारणं निजजन्मातिवाहन 1 शतके उद्देशक: 5 सूत्रम् 45 नारकाणां जघन्यादि असङ्ख्यात (2) अवगाहना (3) शरीर (4) संहनन (5) संस्थान (६)लेश्या स्थानेषु क्रोधाधुपयक्ताना विविधभत्र प्रश्ना : / 2 // 121 //