________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 118 // ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्चाभाव एवेति, तत्र सव्वेवि ताव होज्ज कोहोवउत्त त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावान्नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः१। अहवे त्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता षड् भङ्गाःकार्याः, तथाहि, क्रोधोपयुक्तश्च मानोपयुक्ताश्च 1 तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च 2, एवं माययैकत्वबहुत्वाभ्यां द्वौ, लोभेन च द्वौ, एवमेते द्विकसंयोगे षट् / त्रिकसंयोगे तु द्वादश भवन्ति 12, तथाहि, क्रोधे नित्यंबहुवचनंमानमाययोरेकवचनमित्येकः 1, मानैकत्वे मायाबहुत्वे च द्वितीयः 2, माने बहुवचनं मायायामेकत्वमिति तृतीयः३, मानबहुत्वे मायाबहुत्वे च चतुर्थः 4, पुनः क्रोधमानलोभैरित्थमेव चत्वारः 4, पुनः क्रोधमायालोभैरित्थमेव चत्वारः 4, एवमेते द्वादश 12 / चतुष्कसंयोगे त्वष्टौ, तथाहि, क्रोधे बहुवचनेन मानमायालोभेषु चैकवचनेनैकः,एवमेव लोभे बहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जातो, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एवमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव // समयाहियाए जहन्नट्ठिईए वट्टमाणा नेरइया किं कोहोवउत्ते त्यादि प्रश्नः, इहोत्तरम्, कोहोवउत्ते ये त्यादयोऽशीतिर्भङ्गाः, इह समयाधिकायां यावत्सङ्खयेयसमयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि, भवन्ति चेदेको वाऽनेको वेति ततः क्रोधादिष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव 4, द्विकसंयोगे चतुर्विंशतिः, तथाहि, क्रोधमानयोरेकत्ववहुत्वाभ्यांचत्वारः४, एवं क्रोधमाययोः 4, एवं क्रोधलोभयोः 4, एवं मानमाययोः४, एवं मानलोभयोः 4, एवं मायालोभयोरिति 4 द्विकसंयोगेचतुर्विंशतिः / त्रिकसंयोगे द्वात्रिंशत्, तथाहि, क्रोधमानमायास्वेक 1 शतके उद्देशक:५ सूत्रम् 44 स्थित्यादिदशस्थानानि। नारकाणां जघन्यादि असङ्ख्याता(१)ऽऽयु:स्थितिस्थाने क्रोधाधुपयुक्तानां विविध भङ्ग प्रश्ना:। // 118 //