SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 1 शतके उद्देशक:५ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् | भाग-१ // 117 // स्थानानि तावत्प्ररूपयन्नाह, इमीसे ण मित्यादि व्यक्तम्, नवरमेगमेगंसि निरयावासंसि त्ति प्रतिनरकावासमित्यर्थः, ठितिठाण त्ति, आयुषो विभागा असंखेज्ज त्ति सङ्ख्यातीतानि, कथं?, प्रथमपृथिव्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राण्युत्कृष्टा तु सागरोपमम्, एतस्यां चैकैकसमयवृद्ध्यासङ्खयेयानि स्थितिस्थानानि भवन्ति, असङ्खयेयत्वात्सागरोपमसमयानामिति, एवं नरकावासापेक्षयाप्यसङ्खयेयान्येव तानि केवलं तेषु जघन्योत्कृष्टविभागो ग्रन्थान्तरादवसेयो यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दशवर्षसहस्राण्युत्कृष्टा तु नवतिरिति , एतदेव दर्शयन्नाह जहण्णिया ठिती त्यादि, जघन्या स्थितिर्दशवर्षसहस्रादिकत्येक स्थितिस्थानम्, तच्च प्रतिनरकं भिन्नरूपम्, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्रम्, एवं यावदसङ्खयेयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह तप्पाउगुक्कोसिय त्ति, उत्कृष्टाऽसावनेकविधेति विशेष्यते तस्य विवक्षितनरकावासस्य प्रायोग्या, उचिता, उत्कर्षिका तत्प्रायोग्योत्कर्षिकेत्यपरं स्थितिस्थानम्, इदमपि चित्रम्, विचित्रत्वादुत्कर्षस्थितेरिति ॥एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाधुपयुक्तत्वान्नारकाणां विभागेन दर्शयन्निदमाह, इमीसे णमित्यादि, जहन्नियाए ठिईए वट्टमाणस्स त्ति या यत्र नरकावासे जघन्या तस्यां वर्तमानाः, किं कोहोवउत्ते त्यादि प्रश्ने सव्वेवी त्याधुत्तरम्, तत्र च प्रतिनरकं जघन्यस्थितिकानांसदैव भावात्तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिर्भङ्गकाः, एकादिसङ्ख्यातसमयाधिकजघन्यस्थितिकानांतु कादाचित्कत्वात्तेषु च क्रोधाधुपयुक्तानामेकत्वानेकत्वसम्भवादशीतिर्भङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च संभवइ जहिं विरहो असीई भंगा तहिं करेजाहि। जहियं न होइ विरहो अभंगयं सत्तवीसा वा॥१॥अयं च तत्सत्तापेक्षो विरहो द्रष्टव्यो न तूत्पादापेक्षया, यतो रत्नप्रभायां चतुर्विंशतिर्मुहूर्त्ता उत्पादविरहकाल उक्तः, ®यत्र (एकादिसङ्ख्यातसमयाधिकादौ) विरहः संभवति तत्राशीतिं भङ्गानां कुर्यात् / यत्र न विरहो भवति तत्राभङ्गक सप्तविंशतिर्वा // 1 // सूत्रम् 44 स्थित्यादिदशस्थानानि। नारकाणां जघन्यादि असङ्ख्याता(१)ऽऽयु:स्थितिस्थाने क्रोधाधुपयुक्तानां विविध भङ्ग प्रश्नाः / 117 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy